पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुति. 137 66


तदुक्तेः । अतश्चैतन्यातादात्म्याच्च न तत्र व्यभिचारः । ब्रह्मणि तु न सः, तदन्या कारवृत्तौ पूर्वोक्तविरोधेन तदाकारकत्वाभावात् । तन्मात्राकारकवृत्तेः सप्रकारकत्वविशेषणेन वारणसम्भवात् । तदन्य- निष्ठतादात्म्येनैव हेतुत्वाद्वा । एतेन वृत्तिप्रतिबिम्बितशुद्ध ब्रह्मरू - पाभ्यां भेदसत्त्वात् तादात्म्यसत्त्वेऽपि न क्षतिः । अतीतादे- रपि वर्तमानतादशायां तादृशचित्तादात्म्यात् तत्र न भागासिद्धिः । यत्तु – " वृत्तिविषयत्वेनैव सकलव्यवहारसम्भवात् वृत्तिविषयत्वाति- रिक्तस्य चिद्विषयत्वस्याननुभवाच्च न कुत्रापि चिद्विषयत्वम् । अन्यथा तमोनिवर्तकप्रभादिप्रतिफलितं प्रभाद्यन्तरं स्यात् । विषयस्यापरोक्ष्यमपि इन्द्रियप्रयुक्तसाक्षात्कारत्वविशिष्ट वृत्तिविषयत्वरूपं वृत्तिप्रतिफलितचिद्वि- षयत्वं विनाप्युपपद्यते, ज्ञानत्वाश्रयवृत्तिविषयत्वरूपज्ञातत्वादिवत् " इति, तन्न; सुखादौ वृत्तिज्ञाने च इन्द्रियजन्यवृत्त्यन्तरकल्पने गौरवात्, वृत्तिविषयत्वस्येच्छादिव्यवहारविषयत्वाप्रयोजकत्वात् । अस त्त्वापाद का ज्ञानविषयता नवच्छेदकत्वस्य तत्र प्रयोजकत्वोक्तौ चेच्छा- विरहप्रयोजकमज्ञानाविषयतावच्छेदकत्वं घटादेरज्ञानविषयचित्तादात्म्ये- नैवोपपाद्यम् । अवच्छेद्याधिकरणसंम्बन्धं विना अवच्छेदकत्वानुपपत्तेः । न चाज्ञानविषयतानवच्छेदकत्वस्य तथात्वे अतीततादिदशायां सुखादौ परोक्षवृत्तिनिवर्त्यतत्समसंख्याज्ञानानामिच्छादिविरहप्रयोजकानां कल्पन- मावश्यकं, तथाच तदपेक्षया वृत्तीनां विद्यमानतादशायां तत्र कल्पनायां न गौरवमिति वाच्यम्; अज्ञानस्य वृत्तिप्रागभावरूपतया प्राचां मते वृत्तिसमसङ्ख्यत्वेऽपि विद्यमानसुखादौ वृत्तितत्प्रागभावादिकल्प- नायां तदपेक्षया गौरवात्, नव्यमते प्रागभावास्वीकारेणाज्ञानस्य वृत्तिप्रागभावत्वाभावात् तत्समसङ्ख्यत्वाभावात् । देशकालविशेषाव- च्छेदेन घटाद्यत्यन्ताभावस्य घटादिविरोधित्ववत् तद्विषयतावच्छेदक- 2 तत्कल्पनाया गौरवादिति 1 स्वरूपाभ्यां. -