पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 129 3 तद्विषयनाशे इति पक्षे तस्योक्तविषयाविषयकत्वनियमो युक्तः, उक्त- विषयविषयकस्योक्त 'भ्रमरूपत्वेन तन्नाशत्वासम्भवात् । इयं शुक्तिः तत् रूप्यं ज्ञेयमित्यादिरूपेण अतीतरूप्यादिविषयकत्वेन स्वसमानकालीन- त्वेनापि ज्ञानस्य तु नासम्भवः, स्वसमानकालीनत्वेनापि विषयस्य विशेषणीयत्वादुक्तज्ञानस्य तद्रूप्यमित्यंशे स्मृत्यादिरूपत्वेनातीत रूप्या- दिविषयकत्वेन स्वसमानकालीनरूप्याद्यविषयकत्वात् । अतएवेयं शुक्ति- रस्य रूप्यस्य धीः मम जातेत्यादिज्ञानस्यापि नासम्भवः । तथाच शुक्तिरियं रजतमिदं विद्यमानमित्यादेरिव अहं ब्रह्म, विद्यमानो घटो रूपवानित्यादेरपि ज्ञानस्यासम्भवः 3, स्वसमानविषयकाज्ञानजन्यभ्रमवि- षयविद्यमानविषयकत्वात् । ज्ञानस्योक्तनाशहेतुत्वपक्षे तूक्तनियमो न युक्तः, उक्तविषयविषयकेनाप्युक्त नाशजननसम्भवात् । न चैवमुक्तज्ञानस्य स्वनाश्यत्वेन क्षणिकता स्यादिति वाच्यम् : उक्तनियमे स्वीकृतेऽपि ब्रह्मज्ञानस्य ब्रह्माज्ञानजन्यभ्रमविषयत्वेन स्वनाश्यत्वात् तन्नाशकान्तर- कल्पने गौरवाच क्षणिकतापत्तेः । न च ब्रह्मज्ञानविषयकभ्रमस्य साक्षिणः अविद्योपहितचिद्रूपत्वेन उक्ताज्ञानाकार्यत्वेन ब्रह्मज्ञानस्य न स्वनाश्यत्वमिति वाच्यम्; उक्तभ्रमस्य ब्रह्मज्ञानरूपविषयोपहितरूपे- णाज्ञान कार्यत्वात् अविद्या वृत्त्युपहित चितः साक्षित्वपक्षे म्वरूपेणापि तत्त्वात् । वस्तुतस्तु स्वसमानविषय का ज्ञानतत्प्रयुक्तान्यतरत्वावच्छेदेनैव लाघवेन ज्ञाननाश्यत्वात् प्रयुक्तत्वस्य च नाश्यतावच्छेदकतया सिद्धस्य तदधीनत्वरूपस्य शक्तिविशेषरूपस्य वा नित्येऽपि सम्भवात् अज्ञा- 1 विषयकतत्त्वज्ञानस्योक्त. ' विषयपदेन विषयतापर्याप्याश्रयोक्तथा रजता- भिनेदमादेरेव शुक्तयादिज्ञानविषयत्व सम्भवात् । न चेयं शुक्तिरस्य रूप्यस्य ज्ञानं मे जातमित्यादिज्ञानासम्भव इति वाच्यम्; इतरांशे अविशेषणस्य अविशेष्यस्य चोक्तपर्याप्तयाश्रयस्य विषयपदेनोक्तरिति । स्वसमानकालीन त्वेत्यारभ्य तथा चेत्यन्तं पाठान्तरम् । इति कोशागारीयमातृकायां वर्तते. 3स्य संभवः. 4 उक्तविषय- केनाप्युक्त 5 प्रत्युपहित. A.S.V.