पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 127 मिथ्यात्वाभ्युपगमात् ज्ञानान्तर विषयत्वेन विशेषणे भागा- सिद्धयभावाच । ननु वेदान्तजन्याखण्डवृत्तेरुपाहतविष- यत्वे तदानीमुपाध्यन्तराभावेन तस्या एव उपधायकत्वात् स्वविषयत्वापत्तिः । नचेष्टापत्तिः, शाब्दबोधे शब्दानुपस्थिता भाननियमेन वृत्तेः शब्दानुपस्थितायाः भानानुपपत्तेः । यथा- कथंचिदुपपत्तौ वा न ततोऽज्ञानतत्कार्ययोर्निवृत्तिस्स्यात् अज्ञान- तत्कार्याविषयकज्ञानस्यैव तदुभयनिवर्तकत्वात् । अन्यथा 'अह- मज्ञः अयं घटः' इत्यादिज्ञानानामप्युपहितविषयकत्वेन अज्ञान- निवर्तकत्वग्रसङ्ग इति चेन; वृत्ते : शाब्दवृत्तावनवभासमानाया स्मन्मते शुद्धव्यक्ति धीः । त्वन्मतेऽपि प्रमेयमित्यादिज्ञानद्विशेष्यमात्रांशे उद्बुद्धसंस्कारात विशेष्यमात्रस्मृतिर्वाच्या । अन्यथा अननुभूतदशरथ- त्वादिविशिष्टे शक्यादिज्ञानासम्भव इति भावः । ज्ञानान्तरेति । विशिष्टविषयकज्ञानेत्यर्थः । उपाध्यन्तराभावेनेति । ज्ञानमेवाज्ञानस्य स्वेतरतत्कार्यस्य च ध्वंस इति मते भुज्यमा नादृष्टाभाव काली नज्ञानस्य स्वेतरोपाधिकालीनत्वासम्भवात् उपाध्यन्तराभावेनेत्यर्थः । अथवा तदानन्तिनानां स्वस्वेतरोपाधीनामन्तरस्य विशेषस्याभावेन तस्या एव तस्या अपीत्यर्थः । यद्वा ज्ञानमेवाज्ञानध्वंस इति मते अज्ञानस्योपाधित्वास- म्भवात् अज्ञानकार्यस्यैकजातीयस्य असार्वत्रिकत्वात् तस्या एवाखण्डा - कारवृत्तित्वेन सर्वत्रोपधायकत्वादित्यर्थः । यथाकंथचित् - शाब्दज्ञानस्य स्वभिन्नशब्दानुपस्थिताविषयकत्वनियमस्वीकारेण । तत्कार्याविषय- केति । तत्प्रयुक्ताविषयकेत्यर्थः । तेन जीवेशभेदादिविषयकस्याप्य- निवर्तकत्वलाभः । उपहितविषयकत्वेन विशिष्टविषयकत्वेन । तेना- स्मन्मते ज्ञानोपहितविषयकस्य निवर्तकत्वेन नेष्टापत्ति: । निवर्तकत्व- प्रसङ्ग इति । न चोक्तज्ञानानामनिवर्तकत्वात् समानविषयकत्वेन ज्ञाना- 1 शुद्धवृत्ति.