पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वमिथ्यात्वनिरूपणम् 119 - प्रपञ्चाभावत्वेन शून्यम् । अविचारितप्रपञ्चाक्षेपात् – यतः प्रपञ्चो विचारासहः अतस्तस्य खण्डनात् । प्रकाशते – प्रकाशसम्बद्धः । विष- यविषयिभावः – विषयिप्रतियोगिको विषयभावः । नैयायिकैः- । मादृशैः । समर्थयिष्यते–'प्रकाशस्य सतः तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयता' इत्यादिना वक्ष्यते । वेद्यनिष्ठस्त्विति -- चित्तादात्म्यस्य' चितो भिन्नेषु कल्पितस्य स्वीकारात् चित्तेः स्वम- काशत्वेन चित्तिविषयत्वास्वीकाराच्च चिद्भिन्नेष्वेव चित्तेस्तादात्म्यरूपा विषयता न तु चित्तावित्यर्थः । अस्मिन् दर्शने - वेदान्तिदर्शने । तत्तन्मायोपनीतेति - मूलाविद्यापल्लवाविद्यापरिणामघटादिशुक्तिरूप्यादी- त्यर्थः । बहित्रेति – महानौकेत्यर्थः । किंच सदसत्त्वविरोधस्य अस्म- त्सम्मतत्वात् तत्परमुक्तवाक्यं न नः प्रतिकूलं, अवच्छेदकभेदाभा- वेऽपि प्रमाणबलात्समुच्चय इत्युक्तमेव । परस्परविरहयोरेकज्ञान बाध्यत्वं युक्तम्; जाग्रद्बोधेन स्वामयोर्भावाभावयोरयं घट इत्यादिज्ञानेन शुक्तिरूप्यतदभावयोः बाधात् । किंच यद्यपि ब्रह्मप्रमान्यज्ञानं न परस्परविरहयोर्बाधकं तदधिष्ठानाविषयकत्वात् ; तथापि ब्रह्मप्रमा तद्वाधिकैव, तदधिष्ठानविषयकत्वात् ; विरुद्धयोः समसत्तयोः एकत्र स्थितिरपि युक्ता, स्वप्नेन्द्रजालादौ तथा दृष्टत्वात् । व्यावहारिक- योरौष्ण्यतदभावयोः एकत्र सत्त्वेऽपि न बाघोच्छेदः, संयोगतद- भावयोरिव विरोधनिरूपकाधिकरणस्यैव स्वप्रतियोगिविरोधित्वविशि- ष्टाभावावीशष्टस्य बाधत्वसम्भवात् । न चैवं जलमुष्णमित्यादावुष्ण- त्वानविकरणवृत्त्यनुष्णत्ववजलस्य बाधत्वसम्भवेऽपि तेजोऽनुष्णमि- मित्यादौ बाघो न स्यात्, अनुष्णत्वानधिकरणाप्रसिद्धेरिति वाच्यम्; 1 प्रकाशसंबद्धः संवृत्या, अविद्यया न.इति पा. 2 चिनिष्ठतादात्म्येन चिति भिन्नेषु कल्पितस्य स्वीकाराञ्चितस्स्वप्रकाशचितिविषयत्वास्वीकाराञ्च चिद्भिन्भेष्वेव चित- स्तादात्म्यरूपा विषयता न तु चित्तावित्यर्थः इति पा.