पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ प्रथमः तद्वदवच्छेदकभेदाभावात् । एकबाधकेत्याद्यपि न युक्तं, परस्परविरह- योरेकबाध्यत्वासिद्धेः । शुक्तिरूप्यशुक्तिभिन्नत्वयोः परस्परविरहत्वा- भावात् । प्रपञ्चे सत्यत्वामथ्यात्वे समसत्ते इत्यपि न, विरुद्धयोरेकत्र समसत्ताऽसम्भवात् । सम्भवे वा वहावौष्ण्यतदभावौ व्यावहारिकौ स्यातामिति बाघोच्छेदः । तथाच व्यावहारिक मौष्ण्याभावमादायाप्रे त्वदुक्ता बाधव्यवस्था विरुध्यत इति पूर्वापरविरोध: ” इति ; तत्तु - च्छम् । काप्यदर्शनादेकरूपेण परस्परविरहयोः न निषेध इति हि न युक्तम् ; व्यवहारकाले तददर्शनेऽपि तदुत्तरकाले शुद्धचित्तपुरुषैः 'नेह नानास्ति किंचन, नात्र काचन भिदाऽस्ति' इत्यादिश्रुति- भिरुक्तानुमानेन च तद्दर्शनात् । अधिकसत्ताकाभावज्ञानस्यैव बाघ- कत्वपक्षे गज तदभावादे: स्वामस्य जागरे स्वानं दृश्यमात्रं कालत्र- येऽपि स्वाश्रये नास्तीति एकरूपेण निषेधात् शुक्तिरूप्याभाव- स्याश्रमायुक्तेः शुक्तिरूप्याधिष्ठानमात्रगतत्वपक्षे शुक्तिरूप्यतदभावा- न्यतरत् घटादौ नास्तीति निषेधाच, घटध्वंसकाले कपाले घट- तदत्यन्ताभावान्यतरन्नास्तीति निषेधाच्च । विषमसत्तत्याद्यपि न युक्तम् ; रूप्यमिथ्यात्वं तात्त्विकमित्याचार्यवाक्ये तात्त्विकशब्दस्य व्यावहा- रिकपरत्वात् विरुद्धयोरेकमिथ्यात्वे अपरसत्यत्वमिति नियमस्य यद्यद्वाघकधीविषयः तत्तदधिकसत्ताक मित्येवंरूपत्वेन रूप्यसत्त्वस्य तात्त्विकतापत्त्यसम्भवात् तस्य रूप्यमिथ्यात्वबाघकधीविषयत्वाभा- धात् । एवं नान्त्य इत्याद्यपि न युक्तम् ; जगत्सत्यत्वस्य जग- मिथ्यात्वबाधकधी विषयत्वाभावात् । समुच्चयस्तु इत्यादिकमपि न युक्तम् ; कल्पितस्य तदुभयस्य कल्पितयोस्तात्त्विकयोर्वा तदभा- वयोश्चैकषामणि सम्भवात् रूप्ये सत्त्वासत्त्वे तु न समुच्चिते; जगति सत्यत्वमिथ्यात्वयोरिव तत्र तयोः प्रतीत्यभावात् । सर्व- , , 1 रजत. 2 श्रयायुक्तेः. 3 रूप्यस्य. 4 सत्यत्वासत्यत्वे. 116 व्य.………… ं गुरुचन्द्रि कायां Ha , -