पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धियाख्यायां गुरुचन्द्रिकायां [ प्रथमः स्परविरहरूपत्वेपि विषमसत्ताकयोरविरोधात् । व्यावहारिक- मिथ्यात्वेन व्यावहारिकसत्यत्वापहारेपि काल्पनिकसत्यत्वा- नपहारात् । तार्किकमतसिद्धसंयोगतदभाववत् सत्यत्वमिथ्या- त्वयोः समुच्चयाभ्युपगमाच्च । एकस्य साधकेन अपरस्य बाध्यत्वं विषमसत्ताकत्वे प्रयोजकम्, यथा शुक्तिरूप्यतदभावयोः । 112 व्यावहारिकेति । व्यावहारिकसन्वेति । प्रातीतिकान्यसत्यत्वेत्यर्थः । काल्पनिकेति । प्रातीतिकेत्यर्थः । शुक्तिरूप्यादौ तयोरविरोधस्सिद्धः । उक्तश्रुतौ च सत्यपदं व्यवहारकालाबाध्यपरम् । अतो नानृतपदवैयर्थ्य - मिति भावः । यथा तार्किकैः संयोगतदभावयोर्व्यावहारिकयोरप्यवच्छेदक- भेदेनाविरोधोऽङ्गीक्रियते तथा अवच्छेदक भेदाभावेऽपि सत्यत्वमिथ्यात्वयोः व्यावहारिकयोरविरोधः, प्रमाणस्योभयत्राविशेषात् । उक्तं हि भामत्यां- ' विरुद्धमिति नः क्व सम्प्रत्ययः यत्र न प्रमाणम्' इति । न चैवं भेदा - भेदादिस्थले विषमसत्ताप्रतिपादनपरा वयं तु पश्यामोऽभेदोपादानाभेद- कल्पनेत्यादिभामती व्यर्थेति वाच्यम् । अभ्युपेत्य वादत्वात् । समसत्त- योरपि बाध्यबाधकत्वं स्वामगजतन्निषेधदृष्टान्तेनोक्तमेवेत्याशयेनाह- तार्किकेति । ननु यत्र मिथ्यात्वावच्छेदकं नोभयवृत्ति तत्राप्येक- मिथ्यात्वे अपरस्याधिकसत्तायां का युक्तिः तत्राह – एकसाधकेति । प्रयोजकं व्याप्यम् । यद्यद्वाधकधीविषयः तत्ततोधिकसत्ताकमिति व्याप्तौ यदि ततोधिकसत्ताकं न स्यात् तदा तद्बाघकधीविषयो न स्यादिति हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः । अभ्युपेत्य वादोऽयम् । तेन स्वामगजतदभावदृष्टान्तेन व्यावहारिकयोः प्रपञ्चतदभावयोः बाध्यबाधकभावापन्नधीविषयत्वस्य पूर्वोक्तत्वेपि न क्षतिः । अथवा ननु मिथ्यात्वावच्छेदकस्योभयावृत्तित्वेऽपि एकमिथ्यात्वे अपरस्याधि- कसत्ता मास्तु, न हायं नियमः – 'एकत्र प्रसक्तयोः विरुद्धता- - -