पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः बन्धकप्रयुक्तत्वात् । अनुमित्यादिरूपः प्रागभावध्वंसो न ध्वंसत्वेन परामर्शादिप्रयुक्तः, तथापि ज्ञानत्वव्याप्यापेक्षया लाघवात्साक्षात्कार- त्वमेव वाच्यं न तु ध्वंसत्वेन प्रयुक्तत्वमिति भावः । ननु इदं रजतं पश्यामीत्यनुभूयमानभ्रमं प्रति चाक्षुषत्वेन निवर्तकत्वं एवं स्पृशामत्याद्यनुभूयमाने स्पार्शनत्वादिनेनि साध्यवैकल्यमिति चेन्न; चाक्षु- षाधिष्ठानधजिन्यभ्रमोपधायकाज्ञानत्वेन चाक्षुषत्वेन निवर्त्य निवर्तकतोक्तौ तादृशोपधानशून्याज्ञानस्य चाक्षुषेणाप्यनिवृत्त्यापत्तेः । उक्तभ्रमस्वरूप- योग्यतोक्तौ चाक्षुषं विना स्पार्शनादिना तादृशस्वरूपयोग्याज्ञानानिवृति प्रसङ्गात् । न च स्पार्शनादिनिवर्त्याज्ञानं नोक्तस्वरूपयोग्यमिति वाच्यम् ; चाक्षुषस्पार्शनाधिष्ठानधीजन्यभ्रमस्य समूलस्य स्पार्शनादिना निवृत्तेः । तत्राज्ञानभेदस्वकारेऽपि अज्ञानसत्त्वे अधिष्ठानप्रकाशानुपपत्तेः । न च साक्षात्कारत्वेन निवर्तकत्वे अधिष्ठानस्पार्शनोत्तरं क्वचिच्चाक्षुषादिभ्रम- स्यानुभूयमानस्यानुपपत्तिरिति वाच्यम्; तादृशस्थले स्पार्शनादौ अप्र- मात्वधिया निवर्तकत्व स्वीकारात् । अन्यथा वह्नयादौ स्पार्शने तदन्य- त्यादिचाक्षुषभ्रमाद्यापत्तेः । अन्यथा रजतभेदादितद्व्याप्यत्वा नवगाहिनी शुक्तित्वादिधीरखण्डबह्मर्घाश्च न भ्रमनिवर्तिका स्यात् । परेषां तथैवा- भ्युपगमादित्यस्याप्या पत्तेश्च परोक्षप्रातिभासिकश्रमे साक्षात्कारत्वेनानि - वर्तकत्वेपि तस्यादृष्टान्तत्वेन न दोषः । न च ब्रह्मज्ञानेऽपि निश्च यत्वेनैव तथास्तु, तच्च जातिविशेषादिरूपं निर्विकल्पेऽपीति वाच्यं ; अभानापादकस्य परोक्षेण निवृत्त्यननुभवात् अतादृशाज्ञानं प्रत्येव तथा स्वीकारात् । न च परोक्ष अमोऽप्यमानापादकाज्ञानादिति वाच्यं ; पिशाचायतीन्द्रिये रूपविशेषादिभ्रमोपादानाज्ञानस्य तत्त्वासम्भवात्, पिशाचा यवच्छिन्न चैतन्यस्य साक्षित्वानापत्त्यैवाभानसम्भवात् । यदि - 102 'योग्याज्ञाननिवृत्ति,