पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां स्वकार्येण वर्तमानेन लीनेन वा सहाधिष्ठानसाक्षात्कारा- निवर्तते । तत्तद्रूप्योपादानानां अज्ञानानां भेदाभ्युपगमा- दिति न दृष्टान्ते साध्यवैकल्यम् । मुगरपातानन्तरं घटो नास्तीति प्रतीतिवदधिष्ठानज्ञानानन्तरं शुक्तयज्ञानं तद्भुत- रूप्यं च नास्तीति प्रतीतेः सर्वसम्मतत्त्वात् । ज्ञानत्वव्याप्यध- र्मेण ज्ञाननिवर्त्यत्वमित्याप साधु । उत्तरज्ञानस्य पूर्वज्ञान- निवर्तकत्वं च न ज्ञानत्वव्याप्यधर्मेण, किन्त्विच्छादिसा- धारणेनोदीच्यात्मविशेषगुणत्वेन उदीच्यत्वेन वेति न सिद्ध- अज्ञानानां भेदेति । तथाच तन्मत एवेदं साध्यमिति भावः । अथवा ननु अवस्थाऽज्ञानानभ्युपगमपक्षे साध्यं नेदृशं सम्भ- वतीत्यत आह रूप्येत्यादि । अधिष्ठानेति । ब्रह्मेत्यर्थः । निवर्तते निवर्तितुं योग्यम् । तथाचं ज्ञान कार्यत्वरूपं ज्ञाननिवर्त्यतायां- ग्यत्वमेव वाच्यं, उक्तसंग्रहायेति भावः । एकस्य मूलाज्ञानस्य कार्यमात्रोपादानत्वं सहकारिवैचित्र्यादित्याह – तसदिति । अज्ञाना नामिति । पदार्थतावच्छेदकभेदेन एकशेषाने कवचनयोरुक्तिः सूर्यमि- त्रावित्यादिवत् । भेदः तत्तद्दोपा दिसहकारेण तत्तमोपधायकत्वम् । नास्तीति प्रतीतेरिति । न च तत्र ध्वंसभाने' रूप्यध्वंसवति रूप्यवत्यपि तादृशबुद्ध्यापत्त्याऽत्यन्ताभावविषयकत्वस्यैव वाच्यत्वात् कथं ज्ञानप्रयुक्तनिवृत्तिसिद्धिरिति वाच्यम्; तादृशबुद्धेः रूप्यत्वाव- च्छिन्नविरोधिसंसर्गाभावविषयकत्वेनोक्ता पत्त्यभावात् । किंच पातानन्तरं पातोत्तरमेव। रूप्यं चेति चकार एवार्थो ज्ञानानन्तरमित्यत्र योज्यः । तथाच ज्ञानानन्तरमेव रूप्यं नास्ति' नतु ज्ञानपूर्वमिति प्रतीतेः ध्वंस एव विषय इति भावः । उदीच्यात्मेति । शब्दस्य तु पृथिव्यादिगुणस्य वायु- संयोगादिनैव नाशः । उदीच्यत्वेनेति । उदीच्यगुणत्वादिव्यापके- 1 ध्वंसाभाने. 2 नास्तीति धीः इति पा. [प्रथमः