पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः , , विवरणाचार्यैः–'अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा ज्ञानप्रयुक्तत्वसम्भवात् तादृशात्यन्ताभावत्वादिनाऽपि ज्ञानप्रयुक्तत्वप्र- तीतेश्च स्वविशिष्टप्रतियोगिकध्वंसत्वस्य स्वादिविरहत्वान्तस्थले निवे- शसम्भवाच्च । यत्तु कालदेशविशेषयोः एकनिष्ठापरावच्छिन्नकार्याभा- वाधिकरणतैव प्रतिबन्धकादिप्रयुक्तेति तन्न; इहेदानीं दाहाभावो मणिप्रयुक्त इत्यादिशब्दप्रत्यये अधिकरणत्वाप्रत्ययादाधेयत्वस्यैव नव्यमते सप्तम्यर्थत्वात् । न च तयोरेकनिरूपितमन्यावच्छिन्न माधेयत्वं प्रयुक्तं उक्तप्रत्यये भातीति वाच्यम् । प्रयोजकसमानाधिकरणम्यैव प्रयुक्तस्यौचित्यात् । अन्यथा दाहाभावो मणिप्रयुक्तो नेति प्रत्ययापत्तेः । अज्ञानस्य स्वकार्येणेति । स्वोपादानाज्ञानम्य स्वस्य च निवर्तकं ज्ञानमारोप्यस्य बाध इत्यर्थः । तेनाज्ञानस्य बाघ इति न व्यवहारः । किन्तु शुक्तिरजतादेः स इति उत्तरधीः पूर्वधीबाधो मा भूदिति स्वोपा- दानाज्ञानस्येति । उपादानत्वं प्रयोजकत्वम् । तेनाज्ञानादिसम्बन्धा- दिबाघे नाव्याप्तिः । अज्ञानतत्कार्ययोः ध्वंसयोः भेदस्वीकारे स्वोपा- दानाज्ञाननिवृत्त्युदयक्षणे स्वबाधाव्यवहारात् स्वस्येति । निवर्तकत्वं च निवृत्त्युपधायकत्वं उपाधिसन्निधानादिकाली नज्ञानस्य प्रतिबिम्बादि- भ्रमबाधत्वे स्वरूपयोग्यत्वमेव वाच्यं, स्वस्येति न वाच्यम् । परो- क्षस्याप्यपरोक्षश्रमबाधत्वे अज्ञानतद्व्याप्ययोः ध्वंसैक्ये वा उपधायक- त्वोक्तिपक्षेsपि स्वस्येति न वाच्यम् । परोक्षश्रमोपादानस्य असत्त्वा पादकाज्ञानस्य निवर्तकत्वात् परोक्षेऽपि लक्षणान्वयः । उपधायक त्वं च एककालीनत्वघटितमिति निवृत्तिकालएव बाधव्यवहारः स्थूल- स्वरूपस्यापि सूक्ष्मावस्थानिवृत्तिप्रतियोगित्वमिति तत्कालेऽपि तद्वाष- व्यवहारः । निवृत्त्युपधायकत्वोक्तिपक्षे भाविनो वर्तमानं ज्ञानं बाघो नेत्याशयेनाह – वर्तमानेन प्रविलीनन वेति । तच्च लक्षणाप्रविष्टत्वेन मवच्छिन्नमाधेयत्वप्रयुक्ततया. - 2 न भातीति. 98 ·