पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतीयमिथ्यात्वनिरूपणम् 95 66 नातीतघटादावव्याप्तिः । अतएवोत्तरज्ञाननिवर्त्यै पूर्वज्ञाने न सिद्धसाधनम् । न वा वियदादौ ब्रह्मज्ञाननाश्यत्वेऽपि तद्- देव मिथ्यात्वासिद्धया अर्थान्तरम् | उत्तरज्ञानेन लीनस्य पूर्वज्ञानस्य स्वकारणात्मना अवस्थानात् अवस्थितिसामान्य- एव परमाण्वादेरचाक्षुषत्वोपपत्त्या महत्त्वस्य तदहेतुत्वात्, उक्तमह- त्त्वानी कारेऽपि लाघवेन प्रकृष्ट महत्त्व समवहिततैजसत्वादिसम्बन्धवि- शिष्टे सर्वत्र तत्सम्बन्धस्योक्तरत्या स्वीकारेण परमाणावपि तत्स- म्भवात् । तदुक्तं भामत्यां—'तथाचापरमाणुत्वं स्थूलत्वात्' इति । तथाच परमाणुत्वद्यणुकत्वासम्भवः पर्यवसन्नः । महत्त्वस्य प्रत्यक्षानियामकत्वलाघवमप्यत्रोपजीव्यम् । कल्पतरावपि – " द्रव्यस्य गुणसमुदायरूपत्वात् तद्वृद्धिहासाभ्यां उपचयापचयौ ” इत्युक्तम् । यदिच मूलाविद्यायां कादचित्कस्य घटत्वादिसम्बन्धस्य अवश्यं प्रयोजकं वाच्यं घटसंयोगाद्यभावोपि भूतलादौ घटसंयोगसामग्री- रूपकारणाभावप्रयुक्तः अन्यथा सर्वदैव स्यात् कदापि वा तन्न स्यादिति ब्रूषे तदास्तु दण्डादि सम्बन्ध एव तथा । नैतावता कस्यचिदुत्पत्तिः, त्वयापि घटघटत्वादिसम्बन्धस्य दण्डादिप्रयु- क्तस्य तदनङ्गीकारादिति अवहित तमाचतैश्चिन्त्यमेतत्सुधीभिः । ब्रह्म- ज्ञानप्रयुक्त एव स - इति ॥ ब्रह्मणः तद्ज्ञानस्य वाऽज्ञानादिध्वंसत्वेन ब्रह्मज्ञानप्रयुक्तत्वमखण्डं युक्तम्, ज्ञानात्कैवल्यमिति लोकशास्त्रव्यव- हारात् । आधार एव ध्वंसः प्रतियोग्येव प्रागभावस्य स इति मतयोः आत्मनोऽज्ञानादिध्वंसत्वेन प्रयुक्तत्वस्य स्वस्यैव स्वप्रागभा- बध्वंसत्वेन स्वप्रयुक्तत्वस्यं च स्वीकारात्। उत्तरज्ञानात् ज्ञानध्वं- सः स्वस्मात् स्वप्रागभावनाश इति प्रत्ययात्, जन्यत्वं तु क्षेमसाधारणं, ब्रह्मणोऽन्यादृशं तु पञ्चमप्रकारस्यैवेति यथास्थानं वक्ष्यते । एकमेव 1 तत्तद्दण्डादीति पाठान्तरम्. --