सव्याख्यायामद्वैतसिद्धौ 174 [ प्रथम: व्यात्मकम् ; इदंत्वाद्यधिष्ठानस्य स्वप्रकाशत्वात् । न हि वयं सर्वत्राध्यासे यात्मकतां ब्रूमः, अपित्वन्तःकरणवृत्तिसव्यपेक्षा- धिष्ठानप्रकाशे । अत एव नेदं रूप्यमिति त्रयात्मकम्, स्वझे तु चतुरात्मकत्वशङ्का सर्वथानुपपन्ना; इदंरूप्ययोरप्यध्यसनीयत्वात्, अविद्यावच्छिन्नचैतन्यरूपाधिष्ठानस्य स्वप्रकाशत्वात् । न च रूप्यज्ञानस्याचाक्षुषत्वे 'रूप्यं पश्यामी' ति चाक्षुषत्वानुभववि- रोधः; चाक्षुषेदंवृत्त्यवच्छिन्नचैतन्यस्थाविद्यापरिणामत्वेन चाक्षु- षत्वोपचारात्, अनुभवत्वमात्रानुभव एव आत्मानं पश्यामी त्युल्लेखदर्शनाच्च । ननु – – रूप्यज्ञानस्याविद्यावृत्तित्वेन प्राति- भासिकतया प्रतिभासावश्यंभावेनाध्यस्तविषयज्ञानस्य चाध्य- - इदंत्वाद्यधिष्ठानस्य ––संसृष्टेदत्वं प्रत्याधारस्य रूप्यावचिन्नचैत- न्यस्य | स्वप्रकाशत्वात् मनोवृत्तिविषयानात्मकत्वात् । द्वयात्मकतां मनोवृत्त्यावद्यावृत्तिविषयाभ्यामाघारारोप्याभ्यां घटिताम् । सव्यपेक्षा- धिष्ठानप्रकाशे सव्यपेक्षोऽधिष्ठानप्रकाशो यस्य तादृशभ्रमे । यत्रादौ रूप्यभ्रमः पश्चात्तत्र चैत्रीयत्वादिभ्रमः तत्र रूप्यं चैत्रीयमिति द्यात्म- कत्वेऽपि यत्र युगपत्तादृशभ्रमस्तत्रैव अविद्यावृतिरिति न यात्मकं ज्ञानम् । मनोवृत्तिरूपाधिष्ठानधीजन्यभ्रमे तु वृत्तिद्वयात्मकत्वमाव- श्यकामति भावः । स्वप्ने तु चतुरिति । यत्रादाविदमिति शुक्तिधीः पश्चात्चत्र रूप्यमिति धीः, तादृशस्वप्मे वृत्तिद्वयात्मकम् । यत्र तु युग- पदिदं रूप्यं चाध्यस्तं तत्र स्वप्ने तदुभयगोचरैकैव वृत्तिः, अविद्यावच्छिन्न- चिद्रूपाधिष्ठानगोचराप्यविद्यावृत्तिरन्या, तथाच पूर्वस्थले त्रयात्मकं ज्ञानम् द्वितीयस्थले तु द्वयात्मकम् चतुरात्मकत्वं त्विदं रूप्य- मित्यादिस्वप्नस्य न संभवतीति भावः । स्वप्रकाशत्वात् पूर्वजाता- विद्यावृत्तिविषयत्वात् ॥ , ,
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४१
दिखावट