सभ्याख्यायामद्वैतसिद्धौ 152 [प्रथमः त्रयसिद्धिः । समयविशेषसंसर्गश्च तत्समयावच्छिनं स्वरूपमेव संयोगध्वंसादिर्वा । न च – संयोगादिध्वंसादिनैवावश्यकेन तार्ह प्रतीत्युपपत्तिरिति – वाच्यम्; घटप्रतियोगिकत्वेनानुभवा- नुपपत्तेरुक्तत्वात् । न च – कपालेऽपि घटध्वंसादिः संबन्ध- स्थानीयोऽस्तु, एक एवात्यन्ताभावो व्यवहारयत्विति- बाच्यम्; विलक्षणव्यवहारत्रयानुपपच्या दत्तोत्तरत्वात् । अत एव द्वितीयतृतीयपक्षावपि क्षोदक्षमौ; घटप्रतियोगिकत्वानुभव- स्यान्यथोपपादयितुमशक्यत्वात् । एतेन – दण्डसत्त्वेऽपि पुरुषा- सत्त्वाइण्ड्यभावदर्शनादस्तु तत्र विशिष्टाभावः, नचात्र संयोग- सत्त्वे संयोग्यभावो दृष्टः, तथाच न विशिष्टस्याभावः, किंतु विशेषणस्यैवेति–निरस्तम्; संयोगिप्रतियोगिकत्वेनानुभवात् । - इत्यन्यदिति भावः । स्वरूपं भूतलाद्याश्रयरूपमाश्रयत्वम् । तत्तदधि- करणस्य स्वस्मिन् संबन्धत्वासंभवादाह-संयोगध्वंसादिर्वेति । आदिना संयोगप्रागभावसङ्ग्रहः । तथाच घटस्य संयोगनाशोत्तरं पुन- र्नयने नास्तीति व्यवहारानापत्तिः; तत्तत्संयोगप्रागभावकालीनतत्तत्सं- योगध्वंसस्यैव संबन्धत्वात् । संयोगिप्रतियोगिकत्वेनेति । यत्राधि- करणे प्रतियोगि न संयुक्तं तत्र नान्यः पक्ष इति बोध्यम् । यत्तु घटो नास्तीति षीर्न संयोगमात्रस्याभावं गृह्णाति, किंतु भूतलादिघटसंयोगस्य; तथाच यत्र घटो नास्ति तत्र संयोगोऽसन्नेवेति तन्न ; यत्र कादाचित्को घटसंयोगस्तत्रोक्तसंयोगः सन्नेव । अन्यत्रोक्तधीस्थ- लेsपि न दोषः । यभिबन्धनेत्याद्याचार्योक्तेर्हायमर्थः । प्रतियोग्यनु योगिनोर्येन संबन्धेन रूपेण चाभावविषयकधीविषयत्वं तेन संबन्धेन रूपेण चाभावधीविषयत्वम् ; तथाच प्रतियोग्यनुयोगितावच्छेदक- रूपेण प्रसिद्धिरभावबुद्धयापक्ष्यते, न तु तदधिकरणीयतत्तत्संभन्ष-
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१११९
दिखावट