पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 सव्याख्यायामद्वैतसिद्धौ [प्रथमः , - प्रतीयत इति व्याप्तिज्ञानस्य प्रत्यक्षमावश्यकम् अतश्चासतोऽपि प्रत्यक्षत्वम् ज्ञानज्ञानस्य तद्विषयविषयकत्वनियमात्, किंच शशशृङ्गाद्यत्यन्ताभावप्रत्यक्षमावश्यकम्; अन्यथा असतोऽप्य- सचबुद्धिर्न स्यात् तथाच शशशृङ्गादेः प्रत्यक्षत्वमेवेति- वाच्यम्; साक्षादित्यनिषेध्यतयेति चापरोक्षप्रतीतिविषय विशेष- णात् । उक्तस्थले च ज्ञानविषयतया निषेध्यतया च विषयत्व- मिति नास्ति विशिष्टाभावस्यापाद्यस्यासंभवः । यद्वा- सत्वेनापरोक्षप्रतीतिविषयत्वाभाव आपाद्यः । न च - इदं रूप्य मित्यादिभ्रान्त्या अत्यन्तासदेव सत्त्वेन प्रतीयत इति – वाच्यम्; अत्यन्तासतस्तादृशप्रतीतिविषयत्वे सामग्रयभावात् । इन्द्रिय- सन्निकर्षो हि प्रत्यक्षे सामान्यसामग्री, न चासति सोऽस्ति । नच – प्रातिभासिकत्वपक्षे रूप्यादेः प्रतीतिपूर्वकालेऽसत्वेन कथं सन्निकर्षरूप प्रत्यक्ष सामग्रीसंभव इति – वाच्यम् अस्मन्मते ज्ञातैकसति रूप्यादौ साक्ष्यपरोक्षेऽज्ञ ( ननाशकान्तःकरणवृत्तिप्रयो- जकसन्निकर्षानुपयोगात् । न हि तवापीश्वरसाधारणप्रत्यक्षमात्रे सन्निकर्षो हेतुः । न च - प्रमायां निर्दुष्टेन्द्रियसन्निकर्षो हेतुः, न तु भ्रमे, स हि दोषसहितेन्द्रियादेव भविष्यतीति – वाच्यम् ; सन्निकर्षो हीन्द्रियवत्सामान्य सामग्री, तदनपेक्षस्येन्द्रियस्याजन- स्वीकारेऽपि तात्पर्यग्राहकत्वन नाम्तीत्यावश्यकमिति भावः । सत्त्वेना- परोक्षप्रतीतिविषयत्वाभावः अपरोक्षप्रतीतेः सत्त्वप्रकारतानिरूपित विशेष्यत्वाभावः । व्याप्तिज्ञानादिविशेषणतया प्रत्यक्षविशेष्यत्वं तु न सत्त्वप्रकारतानिरूपितम् ; प्रत्यक्षान्तरमपि न सत्त्वेना सद्विषयकम् ; अनिर्वाच्येष्वेवाधिष्ठानसत्तासंचन्धप्रतीतेः 'वस्तुशून्यो विकल्प 'इति सूत्रेण विकल्पस्य सत्तास्वरूपविषयकत्वनिषेधाच्च । न चैवं — धीमात्र- - 9