पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 सव्याख्याय।मद्वैतसिद्धौ [प्रथमः 1 द्भेदो न स्यादिति–वाच्यम्; को ह्यनिर्वाच्यादनिर्वाच्यं भेत्तु- मध्यत्रसितः ? यमेवमाक्षिपसि, किंतु निःस्वरूपात् । यथाच सत्त्वेन न निःस्वरूपविषयत्वं तथोक्तं प्राक् । न चैवं शशशृङ्गा- देरनिर्वाच्यत्वे निःस्वरूपत्वोच्छेदः; शशशृङ्ग मस्तीत्यत्र शशे शृङ्गारोपेण शशीयत्वारोपेण वा अनिर्वाच्य (त्व) विषयत्वेऽपि असन्नृशृङ्ग' मित्यादिवाक्यश्रवणसमनन्तरं विकल्प्यमानाखण्ड - शशशृङ्गादेरनिर्वाच्यानात्मकस्य निःस्वरूपत्वात् । न चात्र नि:- स्वरूपत्वादिविकल्पः; उक्तोत्तरत्वात् । न च – 'अत्यन्ता - सत्यपि ज्ञानमर्थ शब्दः करोति ही ' ति त्वन्मते तस्याध्यस्त- स्यास्तित्वस्यानिर्वाच्यत्वेऽपि 'शशशृङ्गमस' दिति वाक्यादिव 'शशशृङ्गमस्ती' ति वाक्येऽपि शशशृङ्गशब्देनासत एव प्रतीति- रिति — वाच्यम्; अस्तित्वस्यानिर्वाच्यत्वेन शशशृङ्गपदाभ्यां तदधिष्ठानमवश्यं वक्तव्यम्; अत्यन्तासच्चानाधिष्ठानमिति न शशशुङ्गपदाभ्यां तदुपस्थितिः । दृष्टान्तीकृतवाक्ये तु नानि- र्वाच्यं किंचिदपि प्रतीयत इति नाधिष्ठानज्ञानापेक्षेति वैषम्यात् । अत्यन्तासत्यपि ज्ञानमित्यादि त्वस्त्यादिपदासमभिव्याहृतशश- शृङ्गमसदिति वाक्यपरम् । न च – 'तद्वैक आहुरसदेवेदमग्र - - 6 तिरास्ताम् ; तत्राह - यथा चेति । तथोक्तमिति । सदेवासीदित्या- दिना यद्विधीयते तदभाव उक्तश्रुत्या विघयत इत्युक्तं मिथ्यात्वानुमाने इत्यर्थ: । विवेचितं तदस्माभिस्तत्रैव । अनिर्वाच्यत्वविषयत्वेऽपीति । असति सत्त्वसंबन्धाभावेन मन्मते सत्त्वसंसर्गस्यानिर्वाच्य एव माना- दित्यादिः । न च तद्वैक इत्यादि । परेण पुनः शङ्कितत्वात्पुनः 1 शशे शृङ्ग.