पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ त्वेनैवासव्यावृत्तेरपि सिद्धया अनिर्वचनीयत्वसिद्धिपर्यवसानेन शेषवैयर्थ्यम्, न प्रतीयेतेत्यत्र विपर्यये दृश्यत्वेनैव सद्वैलक्षण्य - सिद्धया न बाध्येतेत्युक्तिरप्ययुक्तेति – वाच्यम्; बाध्यत्वदृश्य- त्वयोरेकैकस्य सदसव्यावृत्त्युभयसाधकत्वं यद्यपि संभवति, तथाप्येकैकस्य एकैकदेशव्याप्यत्वग्रहदशायामुभयोः साफल्यात्, उभयव्याप्यमप्येकैकमेकदेशसाधकत्वेनोपन्यस्यतः प्रत्येकैकसा- धकत्वस्य दोषावहत्वाभावात् । अर्थापत्तिद्वयं वैतत, एक- त्वोक्तिस्त्वसतो बाध्यत्वं सतोऽप्यात्मनो दृश्यत्वमङ्गीकुर्वतः परस्य मते एकैकेनोभयसाधनासंभवनिबन्धना | ननु – न बाध्येतेत्यत्र बाधः किं बाधकज्ञानेन निवृत्तिः, त्रैकालिकनिषेधो वा । आद्ये इष्टापत्ति: । द्वितीये असद्विलक्षणत्वपक्षेण बाध्यते चेति विपर्ययापर्यवसानमिति – चेन; उभयथाप्यदोषात् । नचाद्य इष्टापत्तिः; ज्ञाननिवर्त्यत्वे श्रुत्यादिसम्मतेरुक्तत्वात् । द्वितीयेऽपि - 130 [प्रथमः - । प्रमाविषयत्वस्य श्रुतिमुख्तात्पर्यविषयत्वस्येति यावत् । तच्चेदुक्त- विषयत्वशालि स्याद्ब्रह्मवत्, न चोक्तविषयताशालि, तस्माच्छ्रति- बाध्यत्वान्न सदिति बोध्यम् । एवं च परकीयस्य सत्त्वव्यवहारस्य प्रपञ्च सत्त्वेऽपि न क्षतिः । दृश्यत्वेन — वृत्तिविषयत्वेन । शुद्धब्रह्मणो वृत्त्यविषयत्वपक्षे इत्यादिः । एकैकदेशव्याप्यत्वेति — उक्तव्या- वृत्त्यो रेकमात्रं प्रति व्याप्यत्वेत्यर्थः । उपन्यस्यतः प्रति – उपन्या- सकर्तृन्प्रति । असतः — शुक्तिरूप्यादे: । बाध्यत्वम् स्वाधिकरणे निषेध्यत्वम् । इष्टापत्तिरिति । मन्मते रूप्यादेर्बाधा निवर्त्यत्वादिति शेषः । असद्विलक्षणत्वपक्षेणेत्यादि । असद्विलक्षणत्वसाघनाय यद्धा- ध्यते चेत्यादिरूपं विपर्ययानुमानपर्यवसानं तदभाव इत्यर्थः ।