पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 सव्याख्यायामद्वैत सिद्धो [प्रथमः - इति; मैवम् ; सत्त्वं ह्यत्र प्रामाणिकत्वम् । प्रमाणत्वं च तत्त्वा- वेदकत्वम् । तच्च लक्षणया शुद्धब्रह्मबोधकवेदान्तवाक्ये । न तु निर्विशेषत्वादिधर्मप्रतिपादके, अतो न तत्र व्यभिचारः । न च - स्वतः प्रकाशमाने ब्रह्मणि चिन्मात्रे वैयर्थ्येन प्रमाणा- प्रवृत्त्या प्रामाणिकत्वाबाध्यत्वयोर्व्याप्तिग्रहो न स्यात् । प्रत्युत ब्रह्मभिन्न एव प्रामाणिकत्वसत्त्वेन तस्य बाध्यत्वेनैव सह व्याप्तिः स्यादिति – वाच्यम्; ब्रह्मणः स्वप्रकाशत्वेऽपि व्यव- हारप्रतिबन्धकाज्ञाननिवृत्त्यर्थं प्रमाणप्रवृत्तेः सफलत्वात् । अत एव न बाध्यत्वेन सह प्रामाणिकत्वस्य व्याप्तिः : ब्रह्माण व्यभि- चाराद्विरोधाच्च । न हि तत्त्वमावेदयता वेद्यमतत्त्वं नाम | ननु – रूप्यादिबाधकस्य तत्त्वावेदकत्वे अद्वैतहानि:; अतत्त्वा- वेदकत्वे तन्निबन्धनं रूप्यादेरप्रामाणिकत्वं न स्यादिति – चेन्न; बाधकस्यातत्त्वावेदकत्वेऽपि रूपाद्यप्रामाणिकत्वे प्रयोजकतैव; बाध्यान्यूनसत्ताकत्वस्यैव बाधकत्वे तन्त्रत्वात् । अत एवातत्त्वा- वेदकव्यावहरिकप्रमाणबाधितस्यापि रूप्यादेरद्वैतवत्स्वतः प्रामा- ण्यप्रयुक्तपारमार्थिकत्वमस्तु । न चास्य तत्त्वावेदकाद्वैतश्रुति- बाघः; तस्या भेदश्रुतिवत्प्रत्यक्षप्राप्तव्यावहारिकरूप्यनिषेधानु- वादितयोपपत्तेरिति — निरस्तम्; अधिकरणानात्मकत्वपक्षे द्वैत- निषेधस्यापि व्यावहारिकत्वोपपादनाच || - - 1 तत्त्वावेदकवेद्यत्वं बाध्यस्यापीत्यभिमानः | प्रामाणिकत्वं प्रमाणमुख्य- तात्पर्यविषयत्वम् । तत्त्वावेदकत्वं - अबाध्यविषयकत्वम् 1 । न तु निर्विशेषत्वादीति । 'केवलो निर्गुणः' इत्यादिश्रुतेरवान्तर तात्पर्येण निर्विशेषत्वादिबोधकत्वं, न तु मुख्यतात्पर्येणेति भावः । तत्त्वं अबाध्यम् । अद्वैतवत् –द्वैतनिषेधवत् । स्वतः प्रामाण्येत्यादौ हेतुमाह- अतत्त्वावेदकेत्यादि । तनिषेधस्य द्वैतनिषेधस्य । उपपादनादिति । 1 विषयत्वं-क. ग. ---