पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्याऽऽद्यनिर्वाच्यत्वे प्रत्यक्षानुमानप्रमाणनिरूपणम् 125 क्षण्ये च त्रिष्वपि ज्ञेयत्वव्यवहार्यत्वादौ व्यभिचारश्चेति; तन; 'क्षितिः सकर्तृका, कार्यत्वात्, घटवत्' इत्यनुमाने 'अङ्कुरः (न) सकर्तृकः, कार्यत्वात्' इत्याभाससाम्यमङ्कुरादौ व्यभिचारो वा यथा न दोषः, तथा धर्मत्वेन हेतुना समानाधिकरणाभावप्रतियोगित्वं साधयतो मम घटत्वाघटत्वादौ साध्यसत्त्वेन व्यभिचाराभावाद्धेतो- श्रानाभासत्वात् । न ह्यविरुद्धधर्मत्वादिकं तादृक्साध्यसत्त्वे प्रयो- जकम्, किन्तु धर्मत्वमात्रम्। न हि दृश्यत्वादिधर्माणां कुत्राप्यभावा- सम्भवः । तदुक्तम् – 'न हि स्वरूपतो दुर्निरूपस्य किञ्चिदपि रूपं वास्तवं सम्भवति' इति । अत एवात्यन्ताभावप्रतियोगित्वेऽपि न व्यभिचारः । न चात्मनिष्ठात्यन्ताभावप्रतियोगित्वेनार्थान्तरम्; आत्मनो निर्धर्मकत्वेनात्यन्ताभावस्याप्यभावात्; अनात्मनिष्ठ - त्वेन विशेषणाद्वा । न चैवं 'कल्पितत्वमकल्पित्वानधिकरणा- नात्मनिष्ठात्यन्ताभावप्रतियोगि, अनात्मनिष्ठात्यन्ताभावप्रति- गित्वात्, अकल्पितत्ववत्' इत्याभाससाम्यम्; अस्याः प्रसक्ते- रिष्टत्वात् । मिथ्यात्वे यथा मिथ्यात्वसाधकदृश्यत्वादेर्न व्यभि- चारः, तथाऽस्यापि वादिविशेषं प्रत्येकदेशसाधनेन साध्याप्रसि- द्विशङ्काऽपि । तथाहि सत्ख्यातिवादिनं प्रति 'असद्विलक्षणं — करणानिष्ठत्वसाध्यकयोरुक्तानुमानयोः । न दोष इति । तस्य पक्षसमत्वा- दिति शेषः । अर्थान्तरमिति | सत्त्वशून्यनिष्ठात्यन्ताभावप्रतियोगित्व- मादायोक्तानुमानेऽर्थान्तरमिति भावः । अत्यन्ताभावस्येति । आत्मनि विद्यमानस्यापीति शेषः । तथाचासत्त्वादिशून्ये वर्तते तत्समसत्ताको योऽत्यन्ता भावस्तत्प्रतियोगित्वस्य सत्त्वादौ साध्यत्वान्नार्थान्तरमिति भावः । अस्यापि । अनात्मनिष्ठात्यन्ताभावप्रतियोगित्वहेतोरपि । वादिविशेष- मिति । वस्तुत इत्यादिः । सत्ख्यातिवादिनं । प्रपञ्चसत्त्ववादिनम् ।