पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तृतीयमिथ्यात्वनिरूपणम् 89 घटसंयोग इत्यादौ तु अप्रावच्छेदेन उक्तविरोधस्य भानं व्युत्पत्ति. वैचित्र्यात् । न च नञोऽत्यन्ताभावे शक्तिस्वीकारेण तदर्थे तत्र घट त्वाद्यवच्छिन्नप्रतियोगिताकत्वरूपघटा' दिसंसर्गस्यो क्तवाक्यजन्यबोधे भाने- नोपपत्तावुक्तविरोधित्वरूपगुरुतर संसर्गभान कल्पनमयुक्तमिति वाच्यम्; घटादिमत्ताबुद्धौ घटाद्यसमानाधिकरणधर्मवत्ताज्ञानस्य प्रतिबन्धकत्वेन क्लृप्ततया उक्तवाक्यजन्यज्ञानस्य घटाद्यसामानाधिकरण्यरूपविरोधवि- शिष्टविषयक सांसर्गिक विषयतासाधारणोक्तविरोधविषयताघटितरूपेण प्रतिबन्धकताकल्पनेनैवोपपत्त्या उक्त प्रतियोगिताकत्वविषयताघटितरूपे- णात्यन्ताभावज्ञानस्य प्रतिबन्धकत्वाकल्पनेन लाघवात्, उक्तज्ञानस्यो- क्त विरोधविषयकत्वेन वक्तुं युक्तत्वात् । किंच उक्तप्रतियोगिताकत्व- घटितरूपेण प्रतिबन्धकत्वस्वीकारेऽपि उक्तबुद्धेरुक्तविषयकत्वानियमः घटविरोधित्वविशिष्टघटात्यन्ताभावविषयकत्वेनैव तथा स्वीकार्यत्वात्, अन्यथाऽव्याप्यवृत्तित्वेन गृह्यमाणोक्ताभावज्ञानस्यापि प्रतिबन्धकत्वा- पातात्, अव्याप्यवृत्तित्वज्ञानस्योत्तेजकत्वे च गौरवात् । तथाचोक्त- प्रतियोगिताकत्वविषयतानिवेशो व्यर्थ इति ध्येयम् । पूर्वावस्थाया अनु- पमर्देनयत्रावस्थान्तरतन्नाशौ यथा कपालद्वयासंयोगात् घट: तद्विभागाच्य तन्नाशः, तत्र तत्तत्कालादि विशिष्टावस्थैव तत्प्रागभावध्वंसौ । वस्तुतस्तु तत्र घटस्य कपालनाशत्वं कपालान्तरस्य च पश्चादुत्पन्नस्य घटनाश- त्वम्, अन्यथा कपालादेः घटादिकालीनानन्तसंयोगादिकल्पनागौर- वात् । एवंचाविद्यादिरूपपूर्वावस्थायां तथा बोध्यम् । कपालनाशस्थले तु कापालिकाद्यवस्थैव कपालघटयोः नाशः, तत्रैव लोके तत्त्वानुभ- वात् । अतएव विष्णुपुराणे -- मही घटत्वं घटतः कपालिकाकपालिकाचूर्णरजस्ततोऽणुः 3 अविच्छिन्न. पा. 1 घटत्वादि. 5 स्योकजनकत्वे. 2 विषयकत्वेन. 6 कपालादि. । - 4 नियमेन.