पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनिर्वाच्यत्वलक्षणोपपत्तिः 117 - - - ण्यपि सत्वस्येत्थमिति निर्वक्तुमशक्यत्वात् । नापि सत्त्वा- दिना प्रमाणागोचरत्वम् ; अखण्डार्थनिष्ठवेदान्तैकवेद्यब्रह्म- णोऽपि सत्त्वादिप्रकारकप्रमाणागोचरत्वादिति- चेन्न; सत्त्वा- दिना विचारासहत्वं सत्त्वाद्यत्यन्ताभावाधिकरणत्वम् । न चातिव्याप्तिः; ब्रह्मणि सत्त्ववत्तदत्यन्ताभावस्याप्यभावात्; अन्यथा निर्विशेषत्वादिश्रुतिविरोधापत्तेः । न च निर्वि- शेषत्वरूपविशेषसत्त्वासत्त्वाभ्यां व्याघातेन श्रुतिरन्यपरा; विशे- षस्य कल्पितत्वेन तदभावासवेन तत्सत्त्वाभावेन व्याघाता. भावात्, स्वानगजतदभाववत् । अत एव - सत्त्वराहित्येऽपि तदत्यन्ताभाव आवश्यक - इत्यपास्तम् । नन्वेवं – विशेषवत्त्वं धर्मवत्त्वं वा अनिर्वाच्यत्वमस्त्विति--चेन्न; आस्तां तावदयं सुहृदुपदेशः; उक्तलक्षणस्य निष्पन्नत्वात् । यद्वा - सत्त्वादिना रित्थमित्यादि । निर्वक्कुमशक्यसत्त्वादिकत्वमित्यर्थः । सत्वाभावो ब्रह्माण विद्यमानोऽपि मिथ्यात्वाद्ब्रह्माणि नास्तीत्याह -- ब्रह्मणि सत्त्व- वत्तदत्यन्ताभावस्याप्यभावादिति । तथाच वक्ष्यमाणरीत्या धर्म- समानसत्ताकात्यन्ताभावो लक्षणमनतव्याप्तमिति भावः । समाधत्ते – विशेषस्य कल्पितत्वेनेति । विशेषसामान्यस्य कल्पितत्वेनेत्यर्थः । तदभावासत्त्वेन विशेषाभावरूपस्य विशेषस्याप्यसत्त्वेन | तत्सत्त्वा- भावेन व्याघाताभावात् निर्विशेषत्वम्यासत्त्वेन यो व्याघातस्तस्या- सम्भवात् । विशेषतदभावयोरेकत्र कल्पितत्वे दृष्टान्तमाह - स्वाप्नेति । अत एव ब्रह्माणि विद्यमानस्य सत्त्वाभावादेर्मिथ्यात्वेन ब्रह्मण्यभावादेव । तदत्यन्ताभावः घर्मिसमानसत्ताकस्तदत्यन्ताभावः । आवश्यकः ब्रह्मण्यावश्यकः । एवं धर्मिसमानसत्ताकत्वविशेषणावश्यकत्वे । निष्पन्न- त्वादिति । न च सत्ताद्यभावत्वं व्यर्थमिति – वाच्यम् ; धर्मिसमान- - 1 धर्मि.