पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 सव्याख्यायामद्वैतसिद्धौ विरोधाभावात् । न च - कल्पितत्वहेतोर्विरुद्धधर्माभावरूपसाध्यस्य च भावाभावाभ्यां व्याघात इति – वाच्यम्; अतात्त्विकहेतु- सद्भावेन तात्त्विकधर्माभावस्य साधनेन व्याघाताभावात् । अत एव स्वरूपतो दुर्निरूपस्य न किञ्चिदपि रूपं वास्तवं संभवतीति प्राचामुक्तिरपि सङ्गच्छते; व्यावहारिकेणैव दुर्निरूपत्वेन हेतुना व्यावहारिकवास्तवरूपाभावस्य साधनात् । अत एव - दुर्नि रूपत्वरूपहेतोर्वास्तवरूपाभावसाध्यस्य चातात्त्विकत्वेऽसिद्धि- [ प्रथमः , - बाघौ तात्विकत्वे व्याघात इति – निरस्तम्; धर्मिसमसत्ताक हेतुसाध्यादिसवेनासिद्ध्याद्यभावात् तात्विक हेत्वाद्यभावाच्च न व्याघातः । स्वरूपतो दुर्निरूपत्वं च कल्पितत्वमेव । एतेन - ऽपि । अनित्यत्वस्य तात्त्विकत्वेनाभावसत्त्वेऽपि । न च कल्पितत्वहेतो- रित्यादि । कल्पितत्वेन हेतुना धर्मसामान्यस्य तात्त्विकत्वेनामावः साध्य ; तथाच कल्पितत्वहेतोः स्वविधेयीभूतस्य धर्माभावस्य च धर्मस्य च तात्त्विकत्वेनाभावग्राहिकानुमितिः । अतस्तस्याः स्वस्मिन् स्वोपजीव्यपरामर्शे चाप्रामाण्यसंपादकत्वेन व्याघात इति भावः । तात्त्विकं प्रामाण्यं स्वस्मिन् म्वोपजीव्ये च नास्त्येव, किन्तु व्यावहारि- कम्; तदेव चोपजीव्यम्, अतो न तस्या व्याघात इत्याशयेनाह- अतात्त्विकहेत्विति । तात्त्विकधर्माभावस्य धर्मसामान्यस्य तात्त्वि- कत्वेनाभावस्य । व्यावहारिकवास्तवरूपाभावस्य धर्मसामान्यस्य वास्तवत्वेन व्यावहारिकाभावस्य । धर्मिसमानसत्ताकेति । व्याव- हारिकेत्यर्थः । मन्मते' हेत्वादेरत्यन्ताभावस्य सार्वत्रिकत्वाद्व्यावहारिको हेत्वादिमद्भद एव पक्षादिवृत्तिरसिद्धयादिरिति भावः । कल्पितत्वमे- वेति । बाघितसत्त्वासत्त्वोभयकत्वरूपवक्ष्यमाणमिथ्यात्वमेवेत्यर्थः । एतेन 1 कल्पितत्वे हेतोः - क. 1 2 तन्मते- क. ग. -