पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः न च–आद्ये वाच्यम्; सत्त्वा- सद्वैलक्षण्यपदार्थ - (९) इत्यादिलक्षणे निरवद्यत्वसंभवात् सतोऽपि सदन्तरविलक्षणत्वात्सिद्धसाधनमिति वच्छिन्नभेदस्य सन्नेति प्रतीतिप्रयोजकस्य त्वात् । न हि सति सदन्तरभेदेऽपि सन्नेति प्रतीतिः अतो न सिद्धसाधनम् । एवं च सच्चरहितत्वे सत्यसत्त्वरहितत्वे सति सदसत्त्वरहितत्वमपि साधु । स्यादेतत् - सच्चं ताव- त्सत्ताजातिर्वा (१), अर्थक्रियाकारित्वं वा, (२), अबाध्यत्वं वा (३), प्रामाणिकत्वं वा (४), अशून्यत्वं वा (५), ब्रह्मत्वं वा (६), पराङ्गीकृतं वा (७) । नाद्यद्वितीयौ; शुद्धात्मनि सबैलक्षण्यस्य प्रपञ्चे सद्वैलक्षण्याभावस्य चापातात् । न तृतीयः, त्वन्मते तुच्छस्याप्यबाध्यत्वेन तत्र सद्वैलक्षण्यस्यानिर्वा- च्य (त्व )स्य बाध्यत्वेनासद्वैलक्षण्यस्य चायोगात् । न चतुर्थः; प्रमा ह्यन्तःकरणवृत्तिः, तद्विषयत्वस्य प्रपञ्चेपि सम्वेन सद्वै- लक्षण्यस्य तत्रासवप्रसङ्गात् । न पञ्चमः; तस्य प्रपञ्चेऽपि विद्यमानत्वेन सद्वैलक्षण्याभावप्रसङ्गात् । न षष्ठः; तद्वैलक्षण्यम्य जगति सच्चेनेष्टापत्तेः । न सप्तमः; पराभ्युपगतसत्त्वस्यासत्त्व- विरहरूपत्वेनोभयवैलक्षण्योक्तययोगात् । अत एव - एतेषां इत्यादीत्यनेन पूर्वोक्तज्ञाननिवर्त्यत्वादिसङ्ग्रहः । सिद्धसाधनम् उक्त- लक्षणमिष्टम् । सत्त्वासत्त्वाभ्यां सदसत्त्वेन च विचारासहत्वं सत्त्वाद्य- त्यन्ताभाववत्त्वमित्यग्रे वक्ष्यते । तत्रापि सत्त्वादि नास्तीतिधीप्रयोजकस्य सत्त्वसामान्यामावादेर्निवेशात् किंचिन्निष्ठसत्त्वाद्यभावमादाय न दोष इत्याशयेनाह – एवं चेति । अपि साध्विति | विचारासहत्वमित्य न्तोक्तवाक्यार्थरूपमित्यादिः । सत्त्वासत्त्वयोर्मिथो विरहत्वस्य मिथ्या- त्वानुमाने प्रत्याख्यातत्वेऽपि परोक्तदूषणं परिहर्तुं तदङ्गीकरोति - -- ।