पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] देहात्मैक्याध्यासोपपत्तिः 105 - ज्ञातृत्वस्य घटादिप्रमाकाले तदभावेऽपि प्रमातृत्वस्य दर्शना- त्कथमैक्याध्यासस्तत्र प्रयोजक इति – निरस्तम् । तदुक्तं भाष्ये - प्रमातृत्वादिकमध्यासमूलमिति । अत एव चार्वाका- दीनामनभिसंहितप्रचलागमानुमानादीनां देह एवात्मेति प्रवादः। तादृशव्यवहारानुपपत्तेः । न - अन्यथा प्रत्यक्षप्रामाण्यवादिनस्तस्य च - चार्वाकादेरनुमानाभासाज्जाते देहात्मैक्यभ्रमे प्रत्यक्षत्वा- भिमान इति – वाच्यम् ; प्रत्यक्षेण भेदे गृहीते अनुमाना- भासादिनाऽभेदस्य बोधयितुमशक्यत्वात् । तथाच प्रत्यक्ष - , 6 ध्यासस्तु सुषुप्तावस्त्येव; एवं घटादिप्रमाकालेऽपि मनुष्योऽहमित्यादि- साक्षिरूपाध्यासो वर्तत एव ; तदनमिलापस्त्वभिलापप्रयोजनाभावात् । न हि सुषुप्तयन्यसंसारकालेऽहमित्यध्यासो नाम्ति, न वा देहैक्या- विषयकः, अन्यथा 'नाहं मनुष्य' इत्यपि कदाचिस्यात् ; तथापि समाधिप्राचुर्यप्रदर्शनाय कादाचित्काध्यासप्रयोजकत्वमुक्तम् । आत्मा- नात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वप्रमाणानि प्रवर्तन्ते । देहेन्द्रिया- दावहं ममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः । न हीन्द्रियाण्यनुपादाय प्रत्यक्षादिसंभवः । न चाधिष्ठानमन्तरेणेन्द्रिय - व्यापारः । न चानध्यस्तात्मभावेन देहेन कश्चिद्व्याप्रियते । न चाध्यासं विनाऽऽत्मनोऽसङ्गस्य प्रमातृत्वम् । न च तद्विना प्रमाणप्रवृत्ति रिति भाष्यार्थं संक्षेपेणाह –– प्रमातृत्वादिकमध्यासमूलमितीति । प्रत्यक्षेण भेदे गृहीत इति । ऐक्यप्रत्यक्षरूपविरोध्यभावादित्यादिः । अशक्य - त्वादिति । ननु – घटः सन्नित्यादिसत्यत्वनिश्चये सत्यपि प्रपञ्चे मिथ्यात्वानुमानमिव भेदप्रत्यक्षे सत्यप्यैक्यं चार्वाकादिभिरनुमीयते तत्राह- -- न्द्रियादि-ग. सत्त्व - ग.