पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[प्रथमः 98 स्थूलोऽह 'मित्यादी कार्यादिविशिष्टैक्याध्यासस्यावश्यकत्वाच्च । न च – अयमौपचारिक प्रयोग पुत्रे कुशे अहं कृश इतिवत्, तदुक्तम्- - संव्याख्यायामद्वतसिद्रौ 'कृशोऽहं कृष्ण इत्यादौ कार्यादिदेहसंस्थितः । पुत्रादिस्थित कार्यादिवदात्मन्युपचर्यते || ' इति – चाच्यम्; एवं सति देहादिभिन्नात्मास्तित्वप्रतिपादिकाया 'अस्तीत्येवोपलब्धव्य' इति श्रुतेरनुवादकतापत्तेः, मम देह इत्यनौपचारिकः, अहं गौर इत्याद्यौपचारिक इत्यत्र विनिगमका- इति धीसामग्रया प्रतिबध्यतामिति वाच्यम् ; दोषघटितसामग्रया बलवत्त्वेन क्लृप्तत्वादिनि ध्येयम् || 1 6 आवश्यकत्वादिति । तथाच देहस्यैन्द्रियकत्वेन ब्राह्मणत्वादे- रैन्द्रियकत्वसिद्धेर्विशिष्टात्मन्यनन्तन्द्रियसंयोगकल्पने गौरवमिति भावः । औपचारिकप्रयोग इति । कृशादिदेहस्वामित्वादिनात्मविषयकः प्रयोग इत्यर्थः । एवं सति आत्मनि गौरत्वाद्यवच्छिन्नभेदबुद्धया व्याप्ये उक्तौपचारिकत्वे सति । देहादिभिन्नेति । गौरत्वाद्यवच्छिन्नभिन्नेत्यर्थः । अनुवादकतापत्तेरिति । 'येयं प्रेत विचिकित्सा मनुष्ये आम्तीत्येके नायमस्तीति चेके' इति श्रुत्यनूदितस्य गौरत्वाद्यवच्छिन्नभिन्नात्मनि लौकिकसन्देहस्यानुपपत्तेरहं गौर इत्यादिबुद्धिसत्त्वेऽहं गौराद्यन्य इत्यादि- बुद्ध्यापत्तेश्चेत्यपि बोध्यम् । ननु – देहत्वादिना भेदस्य त्वयाप्यात्मनि धीस्वीकारात्तत एव लिङ्गागौरत्वादिना भेदस्याप्यात्मनि निश्चयसंभवात् त्वन्मतेऽप्युक्तश्रुतिरनुवादिकेत्यत्राह – मम देह इति । तथाचाहं गौर इत्यादितादात्म्यबुद्धया मम देह इत्यस्यौपचारिकत्वसंभवेन न गौरत्वादिना भेदनिश्चयः । किंच पुत्रे कृशे अहं कृश इत्यादिबुद्धे- गौणत्वं युक्तम् ; नाऽहं कृश इति प्रत्यक्षात् अहं गौर इत्यस्य तु न - , । प्रतिबध्यत इति वाच्यम्- क.