परिच्छेद:] अहमर्थानात्मत्वोपपत्तिः 77 'अहमज्ञ' इति व्यभिचारः । न च तत्रानर्थाश्रयत्वमसिद्धम्; प्रतीत्या अहमीव 'स्थूलोऽहमज्ञ' इति प्रतीत्या शरीरेऽपि तत्सत्वात्, अन्यथा असिद्धिप्रसङ्गात् । अनात्मत्वं, नाहमर्थ- वृत्ति, अनात्ममात्रवृत्तित्वात्, घटत्ववदित्यत्र कृत्याश्रयावृत्तित्व- मुपाधिः । नापि 'कस्मिन्नुहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि' 'स प्राणमसृजत हन्ताह- मिमास्तिस्रो देवता' इत्यादौ जगत्कारणे सति प्राणमनःसृष्टेः पूर्वमहंत्वोक्तेः 'तदात्मानमेवावेदहं ब्रह्मास्मी ' त्यवधारणेन शुद्धात्मनोऽहंत्वोक्तरनवद्यस्य ब्रह्मणोऽहमुल्लेखोक्तेः, अहमित्येव यो वेद्यः स जीव इति कीर्तितः । 6 1 पित्रादौ पुत्रगतपूतत्वादिफलाभावेन व्यभिचारः | तत्सत्वात् अज्ञान- संबन्ध रूपानर्थसत्त्वात् । नन्वज्ञानस्यानादिसंबन्ध एव हेतुः, शरीरे त्वाधष्ठानगताज्ञानस्य संबन्धश्च शरीराध्यासकाले जातस्तत्राह --- अन्य - थेति । उक्तहेतूकरणे इत्यर्थ: । नन्वबाधितमज्ञानाश्रयत्वं हेतुरस्तु; शरीरे तु तद्बाधितमिति चेत् भ्रान्तोऽसि; अहमर्थेऽपि मन्मते तस्य बाघितत्वेनासिद्धेर्हेतुत्वप्रसिद्धेश्च | मां प्रति दुष्टस्य हेतोस्त्वया प्रयोक्तु- मशक्यत्वात् । उपाधिरिति । न च मुक्तौ साध्याव्यापकत्वम् ; तस्यां साध्यतावच्छेदक विशिष्टस्य सन्दिग्धत्वेन पक्षसमत्वात्, 2 निश्चित- साध्यवत्युपाध्यसन्देहात् । न चाहं करांमत्यिहमर्थान्तर्गताधिष्ठानचितोऽपि कृत्याश्रयत्वात्तत्र मुक्तेर्वर्तमानत्वात् त्वन्मते मुक्तेरहमर्थावृत्तित्वानिश्च- यात्त्वां प्रत्युपाघेः साध्याव्यापकत्वेनोक्तहेतुर्निर्दोष इति – वाच्यम्; उक्तचित एव मुक्तिस्वरूपत्वेन तत्र तस्या अवर्तमानत्वात् । 'स प्राणमसृजते ' ति । 'प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं 1 हेत्वप्रसिद्धेश्च-ग. पक्षसत्त्वात् -ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४५
दिखावट