पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अहमर्थानात्मत्वोपपत्तिः 75 - - चेत्, आत्मेति बुद्धरपि धंशत्वं कल्प्यतामिति – चेन्न; किमिदं शविषयत्वम् ? अधिष्ठानारोप्यविषयत्वं चेत्तहीं- ष्टापत्तिः; अहमर्थमिथ्यात्वस्यैव द्वितीयांश विषयत्वे प्रमाणत्वात् । आत्मेत्यत्र तु द्वयंशाविषयत्वे नैवं प्रमाणमस्ति, येन तथा कल्प्यते । न च द्वयंशविषयत्वं भिन्नभिन्नप्रकारावच्छिन्ना- घिष्ठानारोग्यविषयत्वम् ; रजतत्वसंसर्गारोपनिबन्धनेदंरजतमिति प्रतीतौ व्यभिचारात् । न हि – रजतत्वेऽपि तत्र कश्चन न बोध्यः । इष्टापत्तिः अहमिति प्रतीतेद्वशत्वे इष्टापत्तिः । रजतत्वसंसर्गारोपेति । यत्रानुभूयमानारोपस्थले शुक्तौ रजतस्य भेदग्रहान्नारोपः, किंतु रजतत्वस्य ; तत्रोक्तभेदग्रहस्याप्रतिबन्धकत्वात् समानाकारज्ञानस्यैव नव्यमते प्रतिबन्धकत्वात् तत्रेदं बोध्यम् । वस्तुतो रजतादितादात्म्यारोपस्थलेऽपि रजतत्वादेः शुक्तयादौ प्रकार - त्वेनारोपसामग्रीसत्त्वाद्वजतत्वादेश्चानुपस्थितत्वादेवाभानाद्रजतत्वसंसर्गा रोपे न विप्रतिपत्तिरिति ध्येयम् । निबन्धनेति । घटितेत्यर्थः । इदं रजतमिति प्रतीतर्वृत्तिद्वयावच्छिन्नसाक्षिरूपत्वेनारोपवृत्तिघटितत्वं बोध्यम् || भिन्न प्रकारावच्छिन्नयोर्भाना नियमो वस्तुगतिमनुरुध्योक्तम् । अहमर्थाध्यासेतु भिन्न प्रकारावच्छिन्नयोर्भानमस्त्येव ; अज्ञोऽहं स्फुरा- म्यहमित्यविद्योपहितचित्त्वानावृतचित्त्वादिनैव चितो भानात् । अह- मित्येव कदाचिदुल्लेखस्तु रजतमित्येवोल्लेख इव तावन्मात्रस्येष्ट- साधनत्वज्ञानात् । न चैवं - -'मनः स्फुरति' 'अहं स्फुरामी' ति घियोरवैलक्षण्यापत्तितादवस्थ्यमिति – वाच्यम्; मनःशब्देन मनस्त्व- मात्रस्य अहंशब्देन मनोदेहावच्छिन्नचित्त्वरूपस्योच्चारयितृतावच्छेदक- - 1 अभिन्न- ग. , - -