पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 72 - पत्तिरिति – वाच्यम्; किमधिष्ठानगतधर्मस्यारोप्येऽमानमाषा- द्यते, आरोप्यगतधर्मस्याधिष्ठाने भानं वा । नाद्यः; यद्धर्म- बत्तया ज्ञायमानेऽधिष्ठाने आरोप्यनिवृत्तिस्तस्यैवारोप्येऽभान- नियमेन प्रकृते तदभावात् । न द्वितीय; अधिष्ठानगतधर्म- प्रतीत्यविरोधिन आरोग्यगतस्याधिष्ठाने भानेऽपि प्रकृतेऽविरो- धात् । आत्मैक्याभ्यासकाल एव प्रेमास्पदत्वसंभवेनारोप्येऽप्य- प्रेमास्पदत्वाप्रतीतेः कुतो विषये तत्प्रतीतिः ? यथा इदमिति कारादात्मगतस्य प्रेमास्पदत्वस्यान्तःकरणे प्रतीतिव्यवच्छेदः । अधि- ष्ठानगतधर्मस्य – अधिष्ठानधर्म सामान्यस्य | तस्यैवेति । अधिष्ठान- धर्मसामान्यस्यारोप्ये 'भानाभावे तु इदंत्वादेः रूप्यादौ मानं न स्यात् । परस्परधर्माध्यासो भाष्ययुक्तयादिसिद्धो विरुध्येतेति भावः । प्रतीत्य विरोधिनः – प्रतीतिप्रतिबध्यधीविषयान्यस्य आरोग्य- गतस्य रज्वाद्यारोप्यसर्पादिगतस्य भीषणत्वादेः । अविरोधादिति यदुक्तं तद्विवेचयति – आत्मैक्येति । प्रेमास्पदत्वेन भासमानात्मैक्ये - त्यर्थः । प्रेमास्पदत्वसंभवेन आरोप्ये भासमानप्रेमास्पदत्वसंभवेन । प्रेमास्पदत्वं हि प्रेमविषयतायोग्यत्वं सुखत्वेन भासमानत्वरूपं तस्य च मनआद्यध्यासपूर्वमेवात्मनि प्रतीतेस्तदभावविशिष्टतया मनआदे- र्नात्मन्यध्यासः, नतरामुक्ताभावस्यात्मन्यध्यास इति भावः । यथेति । यत्त्विदंत्वादिनाधिष्ठानज्ञानस्य रजताद्यध्यासहेतुत्वादिंदत्वादिना रजता- दिकं भायात्, प्रेमास्पदत्वादिना तु नाधिष्ठानज्ञानं किल कारण- मिति, तच्छोभते; येन रूपेणाधिष्ठानस्य अमे भानं तेन रूपेण तज्ज्ञानस्य भ्रमे हेतुत्वेन प्रेमास्पदत्वेन ज्ञानस्यापि हेतुत्वात्, पूर्णसुखरूपेणावृतत्वेऽपि साक्षिसुखस्येदानी मनावृतत्वात् उक्तप्रेमास्पद- - । - १ 1 मानाभावे - - ग. [ प्रथमः ,