पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१०१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अहमथनात्मत्वोपपत्तिः 51 - त्वारोपदर्शनात् । अत एवाहमर्थस्यात्मान्यत्वे यः पूर्व दुःखी, सोऽधुना सुखी जात इतिवत् यः पूर्वं मदन्यः सुषुप्तः सोऽधुना अहं जात इति धीः स्यादिति – निरस्तम्; यथा दुःखित्वेन प्राक् ज्ञानं तथा मदन्यत्वेन प्राक् ज्ञानाभावात् । सुषुप्तावहमर्थाप्रकाशवत्तदन्यत्वस्याप्यप्रकाश एव । एवंच प्राग- सच्चाग्रहणात्पूर्व कालगृहीतेनाभिन्नतया गृह्यमाणत्वाच नाहंकारे जन्मप्रत्ययः । विवेकिनां चैताहबुद्धाविष्टापत्तेः । नच– सिद्धेऽहमर्थस्यात्मान्यत्वे परामृश्यमानात्मैक्यारोपः, सिद्धे च तस्मिन् सुप्तावप्रकाशनाहमर्थस्यात्मान्यत्वसिद्धिरित्यन्योन्याश्रय इति – वाच्यम्; आत्मान्यत्वसिद्धेः प्रागेवाहमर्थापरामर्शस्य साधनात् । अहमस्वाप्समित्यस्यैवात्मपरामर्शत्वाङ्गीकारेण न दृष्ट- हानादृष्टकल्पनापत्तिः । अत एव च सुषुप्तावहमर्थप्रकाशे ह्यस्तन इव स्मर्येतत्यत्र नेष्टापत्यवकाशः । किंच 'एतावन्तं कालमहमि- त्याभमन्यमान आस 'मिति परामर्श: स्यात् । न चाहमर्थप्रकाशे तदभिमानापादनं कर्णस्पर्शे कटिचालन मिति - वाच्यम्; तवैव हि तत् । अहमर्थमात्रसापेक्षतया तदभिमानप्रकाशयोरुभयोः गृहीतभेदस्य ग्रहण स्मरणाविरूपज्ञानद्वयस्य भ्रमत्वमित्यख्यातिमते ग्रहणे स्मृतित्वारोपदर्शनादित्यपि बोध्यम् । अत एव - अहमर्थे पूर्वज्ञाना' भावादेव । प्रागसत्त्वाग्रहणात् – उत्पत्त्यग्रहणात् । पूर्व- कालगृहीतेन – पूर्वकालीनतथा गृहीतेन । तथाचोत्पद्यमानत्वा- भावावच्छेदकत्वेन गृहीतपूर्वकालीनत्वस्य ग्रहान्नोत्पद्यमानत्वेन ग्रह इति भावः । यत्त्वहमस्वाप्समिति स्वापक्रियाकर्तृत्वेनाहमर्थपरामर्शो न स्यादिति, तन्न; पूर्वदिनेऽकार्षमितिवदहंकाररूपानुगम स्योक्तत्वात् । तदभिमानापादनम् – तदभिमानपरामर्शापादनम् । तदभिमान - - 1 पूर्व ज्ञाना-ग. 2 स्वरूपानुगम-ग. 4*