पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१००३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अज्ञानवादेऽज्ञान विषय निरूपणम् 35 परिच्छेदः] किंचिदवच्छेदकतया - । ईश्वरोऽपि भ्रमविषयमगृहीत्वा भ्रमं न गृवाति । भ्रमो हि भ्रमत्वेन ग्राह्यः । भ्रमत्वं च रजताभाववति रजतख्यातित्वं वा, असत्खयातित्वं वा, अनिर्वचनीय- ख्यातित्वं वा । तस्मिन् गृह्यमाणे सर्वथा विषयग्रहः । इयांस्तु विशेषः । यत् भ्रान्तः स्वातन्त्र्येण गृढाति, ईश्वरस्तु तज्ज्ञानावच्छेदकतयेति । ईश्वरसार्वज्ञयज्ञानमस्माकं तु सर्वज्ञ पदेन । तत्र सर्वपदप्रतिपाद्यं जाननेवास्मदादिस्तत्र ज्ञान- संबन्धं गृह्णातीतीदृशं सार्वज्ञयमिष्टमेव । विशेषस्त्वीश्वरस्य न कुत्राप्यज्ञानम्, अस्मादृशां तु विशेषेष्वज्ञानमिति कृत्वा । एवं च ज्ञात एव विशेषेऽज्ञानज्ञानमिति । नच – घटादेरज्ञाना- वच्छेदकतया भानेऽपि घटाद्यज्ञाननिवृत्तिं विना तदवच्छिन्न- विषयताया मुद्देश्यतातदवच्छेदकत्वयोः तृतीयार्थाभेदान्वयः | स्वात- त्र्येण — शुक्तयाधंशे रजतादिकम् | ज्ञानावच्छेदकतया ज्ञानविशे- षणीभूतविषयतांशे विशेषणतया । एवं चेति । दृष्टान्तासंप्रतिपत्तौ चेत्यर्थः । ननु - - - यथा द्वेषादौ स्ववृत्तित्वमगृहीत्वाऽपीच्छयां स्ववृत्ति- त्वेन द्वेषादिर्भाति, सत्यत्वेनास्माभिगृह्यमाणोऽपि भ्रमविषयो नेशेन सत्यतया गृह्यते, विशेषरूपेणेशस्य सर्वज्ञानं विशेषविषयकत्वरूपेण नास्माभिर्गृह्यते, तथा विशेषमगृहीत्वा सामान्यावच्छिन्नतयैवाज्ञानं गृह्यतामिति – चेन्न; विषयाविषयके विषयिग्रहे दृष्टान्ताभावात् । न हि यस्य ज्ञानादेर्यत्प्रत्यक्षं तद्विषयाविषयकं तदिति कचिद्दष्टम् । तदुक्तम् –' विषयनिरूप्यं हि ज्ञानम्, अतो ज्ञानवित्तिवेद्यो विषय ' इाते । तथाच कंचिद्विषयं विषयीकुर्वन् कंचिदविषयी कुर्वन् भ्रमस्य ग्रह ईशस्य जायताम् विशेषमात्र विषयकत्वज्ञानं कथं विशेषाविषयकेन साक्षिणा गृह्यतामिति ध्येयम् ॥ , 3*