सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विग्रहः. ]
९२
 


किञ्च-

न तथात्थाप्यते ग्रावा प्राणिभिर्दारुणा यथा।
अल्पोपायान्महासिद्धिरेतन्मन्त्रफलं महत् ॥ ४५ ॥

कि तु । विग्रहमुपस्थित विलोक्य व्यवयिताम् । यत

यथाकालकृतोद्योगात्कृषिः फलवती भवेत् ।
तद्वन्नीतिरियं देव चिरात्फलति रक्षणात् ।। ४६॥

अपर च-

महतो दूरभीरुत्वमासन्ने शूरता गुणः ।
विपत्तौ च महाँल्लोके धीरतामनुगच्छति ॥ ४७ ॥

अन्यच्च-

प्रत्यूहः सर्वसिद्धीनामुत्तापःप्रथमः किल ।
अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतम् ॥४८॥

विशेषतश्च महाबलोऽसौ चित्रवर्णो राजा । यत'-

बलिना सह योद्धव्यमिति नास्ति निदर्शनम् ।
ताद्धं हस्तिना सार्ध नराणां मृत्युमावहेत् ॥ ४९ ॥

अन्यच्च--

स मूर्खः कालमप्राप्य योऽपकर्तरि वर्तते ।
कलिबलवता सार्ध कीटपक्षोद्यमो यथा ॥५०॥

किं च-

कौम संकोचमास्थाय प्रहारमपि मर्षयेत् ।
प्राप्तकाले तु नीतिज्ञ उत्तिष्ठेत्क्रूरसर्पवत् ॥५१॥
महत्यल्पेऽप्युपायज्ञः सममेव भवेत्क्षमः।
समुन्मूलयितुं वृक्षांस्तृणानीव नदीरयः ॥ ५२ ॥

अतस्ततोऽप्याश्वास्य तावद्भियता यावद्दुर्ग, सज्जीक्रियते । यत

एकः शतं योधयति प्राकारस्थो धनुर्धरः।
शतं शतसहस्राणि तस्मार्ग विशिष्यते ॥ ५३ ॥