भवत् । ततो जारेणोक्तम् - " किमिति त्वमद्य मया सह निर्भर न रमसे १ विस्मि-
तेव प्रतिभासि मे त्वम् ।' तयोक्तम्- ' अनभिज्ञोऽसि मम प्राणेश्वरो येन मम
कौमार सख्य सोऽद्य ग्रामान्तर गत, तेन विना सकलजनपूर्णोऽपि ग्रामो माँ
प्रत्यरण्यवद्भाति, कि भावि तत्र परस्थाने कि खादितवान्, कथ वा प्रसुप्त' १ इत्य-
स्महृदय विदीर्यते । जारो ब्रूते - तव किमेव स्नेहभूमि १ स ते भर्ता कलहकार
बन्धक्यवदत् 'रे बर्बर, कि वदसि । शृणु-
|
परुषाण्यपि या प्रोक्ता दृष्टा या क्रोधचक्षुषा । |
अपर च-
|
नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । |
अन्यच्च-
|
भर्ता हि परमं नार्या भूषणं भूषणैर्विना । |
त्व जार पापमति । मनोलौल्यात्पुष्पताम्बूलसदृश. कदाचित्सेव्यसे च । स च स्वामीमा विक्रेतु देवेभ्यो ब्राह्मणेभ्योऽपि दातुमीश्वर । कि बहुना १ तस्मि ञ्जीवति जीवामि, तन्मरणे चानुमरण करिष्यामीति प्रतिज्ञा वर्तते । यत. -
|
तिस्रः कोट्योऽर्धकोटी च यानि लोमानि मानवे । |
अन्यच्च-
|
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् । |
अपर च---
|
चितौ परिष्वज्य विचेतनं पति |