पृष्ठम्:हितोपदेशः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(८८) [हितोपदेश- 5 निर्णयः १ ' मयोक्तम्- सग्राम एव । ' राज्ञा विहस्योक्तम्-' स्वस्वामिन गत्वा सज्जीकुरु ।' तदा मयोक्तम्-' स्वदूतोऽपि प्रस्थाप्यताम् ' राजोवाच-'क प्रया यति दौत्येन १ यत एवभूतो दूत कार्य - भक्तो गुणी शुचिर्दक्षः प्रगल्भोऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात्प्रतिभानवान् ॥ २०॥' गृध्रो वदति- सन्त्येव दूता बहव , कितु ब्राह्मण एव कर्तव्यः । यत प्रसादं कुरुते पत्युः सम्पत्ति नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वरसङ्गमात् ॥ २१ ॥ राजाह-'तत' शुक एव व्रजतु । शुक । त्वमेवानेन सह गत्वास्मदभिलषित ब्रूहि ! ' शुको ब्रूते-' यथाज्ञपयति देवः, किन्त्वय दुर्जनो बक न गच्छामि । तथा चोक्तम्- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोहरत्सीतां बन्धनं च महोदधेः॥२२॥ तढनेन सह . अपर च- न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काकसङ्गाद्धतो हंसस्तिष्टन् गच्छंश्च वर्तकः॥ २३॥' राजोवाच-' कथमेतत् ।' शुकः कथयति- कथा ४. पस्युजयिनीवर्त्मप्रान्तरे महान् प्लक्षतरु । तत्र हंसकाको निवसत. । कढाचिद्ग्रीष्मसमये परिश्रान्त कश्चित्पथिकस्तत्र तरुतले धनुष्काण्ड सनि- धाय सुप्त । तत्र क्षणान्तरे तन्मुखादृक्षन्छायापगता । तत सूर्यतेजसा तन्मुख व्याप्तमवलोक्य तक्षस्थितेन हसेन कृपया पक्षौ प्रसार्य पुनस्तन्मुखे छाया कृता। ततो निर्भरनिद्रामुखिना पथि श्रमेणाकुलेन परिश्रान्तेन पान्थेन मुखव्यादान कृतम् । अथ परसुखमसहिष्णु स्वभावदोर्जन्येन स काकस्तस्य मुखे पुरीषोत्सर्ग कृत्वा पलायित । ततो यावदसौ पान्थ उत्थायोर्ध्व निरीक्षते तावत्तेनावलोकितो हसः काण्डेन हत., अतोऽह ब्रवीमि 'न स्थातव्यम्' इत्यादि । तथाहि-