सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(६८)
[ हितोपदेशे-
 


तथैव साऽवलोकिता । ततस्तल्लावण्यगुणाकृटेन मयापि तत्पश्चाज्झम्पो दत्त । तदनन्तर कनकपत्तन प्राय सुवर्णप्रासादे तथैव पयङ्के स्थिता विद्यावरी भिरभिनव- यौवनाभिरुपास्यमाना मयालोकिता । तयाप्यह दूरादेव दृष्ट्वा सखी प्रस्थाग्य सादर सभाषित । तत्सल्या च मया पृष्टया समाख्यातम्-' एषा कन्दर्प- केलिनाम्नो विद्याधरचक्रवर्तन पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकपत्तन स्वचक्षुषागत्य पश्यति स एव पितुर्गोचरोऽपि मा परिणेष्यतीति मनसः सकल्पः । तदेना गान्धर्वविवाहेन परिणयतु भवान् ।' अथ तत्र वृत्ते गान्धर्वविवाहे तया सह रममाणस्तत्राह तिष्ठामि । तत एकदा रहसि तयोक्तम्- ' स्वामिन् ' स्वेच्छया सर्वमिदमुपभोक्तव्यम्, किन्तु एषा चित्र- गता स्वर्णरेखा नाम विद्यावरी न कदाचित्स्प्रष्टव्या।' पश्चादुपजातकौतुकेन माता स्वर्णरेखा स्वहस्तेन मया स्पृष्टा । तया चित्रगतयोग्यह चरणपझेन ताडित आगत्य स्वराष्ट्रे पतित । अथ दु खातऽह परिव्रजित' पृथिवीं परिभ्राम्य- न्निमा नगरीमनुप्राप्त । अत्र चातिक्रान्ते दिवसे गोपगृहे सुप्त सन्नपश्यम् । प्रदोषसमये सुहृदा पालन कृत्वा स्वर्गहमागतो गोपः स्ववधू दूत्या सह किमपि मन्त्रयन्तीमपश्यत् । ततस्ता गोपी ताडयित्वा स्तम्भे वद्वा सुप्त । ततो- ऽर्धरात्र एतस्य नापितस्य वधूती पुनस्ता गोपीमुपेतावदत्- तव विरहान- लदग्धोऽसौ स्मरशरजर्जरितो मुमूर्षरिव वर्तते । तस्य तादृशीमवस्थामवलोक्य परिक्लिष्टमनास्त्वमिनुवर्तितुमागता । तदहमत्रात्मान बद्ध्वा तिष्टामि, त्व तत्र गत्व त सन्तोष्य सत्वरमागमिष्यसि । तथानुष्ठिते सति से गोप. प्रबुद्धोऽवदतु,

  • इदानीं व जारान्तिवः कथं न यासि ? ' ततो यदासौ न किञ्चिदपि ब्रूते तदा

क्रुद्धो गोप * दपन्मम वचसि प्रत्युत्तरमपि न ददासि ' इत्युक्त्वा कोपेन तेन कत्रिकामादायास्या नासिका छिना । तथा कृत्वा पुनः सुप्तो गोपो निद्रा- मुपगत । अथागत्य गोपी दूतीमपृच्छत्-* का वार्ता १ ' दूत्योक्तम्-' पश्य माम् , मुखमेव वार्ता कथयति ।' अनन्तर सा गोपी तथा कृत्वात्मान बद्ध्वा स्थिता । इयं च दूती ता छिननासिका गृहीत्वा स्वगृह प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन क्षुरभण्ड़ याचिता सती सा तस्मै शुरभाण्डमदत्वा क्षुरमेकं