पृष्ठम्:हितोपदेशः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ हितोपदेशे- अन्यच्च- एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।। ये पराधीनता यातास्ते वै जीवन्ति के मुताः ॥ १९॥ अपर च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमशाग्रहग्रस्तैः क्रीडन्ति धानिनोऽथिभिः ॥२०॥ किच- अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः ॥ २१ ॥ अन्यच्च- या प्रकृत्यैव चपला निपतत्यशुचावपि । स्वामिनो बहु मन्यन्ते दृष्टिं तामपि सेवकाः ॥ २२ ॥ अपर च- मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः । धृष्टः पावें वसति नियतं दूरतश्चाप्रगल्भः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥२३॥ विशेषतश्च- प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयात सुखहेतोः को मूढः सेवकादन्यः ॥ २४ ॥ दमनको ब्रूते-* मित्र । सर्वथा मनसापि नैतत्कर्तव्यम् । यत - कथं नाम न सेव्यते यत्नतः परमेश्वराः । आचरेणैव ये तुष्टाः पूरयान्ति मनोरथान् ॥ २५ ॥ अन्यच्च पश्य- कुतः सेवाविहीनानां चामरोद्धृतसंपदः। उद्दण्डधवलच्छत्रं वाजिवारणवाहिनी ॥ २६॥