पृष्ठम्:हितोपदेशः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४ ) [ हितोपदेशे- नदीनां शस्त्रपाणीनां नाखिना शृङ्गण तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २८ ॥ अपर च- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते ॥ १९ ॥ अन्यच्च- स हि गगनविहारी कल्मषध्वंसकारी दशशतकरधारी ज्योतिषां मध्यचारी। विधुपि विधियोगाद्धस्यते राहुणास लिखितमपि ललाटे प्रोज्झितुं कः समर्थः ॥ २० ॥ इति चिन्तयन्नेवासौ तेन व्याघ्रण व्यापादित खादितश्च । अतोऽह ब्रवीमि-कङ्कणस्य तु लोभेन इत्यादि । अत सर्वथाऽविचा- रित कर्म न कर्तव्यम् । यत - सुजीर्णमन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः। सुचिन्त्य चोक्तं सुविचार्य यत्कृतं सुदीर्घकालेऽपि न याति विक्रियाम् ॥ २१॥ एतद्वचन श्रुत्वा कश्चित्कपोत सदर्पमाह- आ । किमेवमुच्यते ? वृद्धानां वचनं ग्राह्यमापत्काले झुपस्थिते । सर्वत्रैवं विचारेण भोजनेऽप्यप्रवर्तनम् ॥ २२ ॥ यत - शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ २३ ॥ तथा चोक्तम्- ईष्र्थी वृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः। परभाग्योपजीवी च षडेते दुःखभागिनः ॥ २४ ॥