सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१२८)
[हितोपदेशे-
 


 यत -

दुःखितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ८८ ॥

 उक्त च-

वृत्त्यर्थं भोजनं येषां सन्तानार्थे च मैथुनम् ।
वाक्सत्यवचनार्थाय दुर्गाण्यपि तरन्ति ते ॥ ८९ ॥

 तथा हि-

आत्मा नदी संयमपुण्यतीर्था
सत्योदका शीलतटा दयोर्मिः ।
तत्राभिषेकं कुरु पाण्डुपुत्र
न वारिणा शुद्धयति चान्तरात्मा ॥ ९० ॥

 विशेषतश्च-

जन्ममृत्युजराव्याधिवेदनाभिरुपदुतम् |
संसारमिममुत्पन्नमसारं त्यजतः सुखम् ॥ ९१ ॥

 यतः-

दुःखमेवास्ति न सुखं यस्मात्तदुपलक्ष्यते ।
दुःखार्तस्य प्रतीकारे सुखसंज्ञा विधीयते ॥ ९२ ॥ '

 कौण्डिन्यो ब्रूते -' एवमेव । ततोऽह तेन शोकाकुलेन ब्राह्मणेन शप्तः -यद-- यारभ्य मण्डूकाना वाहन भविष्यसि ' इति । कपिलो ब्रूते -' सम्प्रत्युपदेशासहि- ष्णुर्भवान् । शोकाविष्ट ते हृदयम् । तथापि कार्य शृणु-

सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते ।
स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ ९३ ॥

 अन्यच्च-

कामः सर्वात्मना हेयः स चेद्रातुं न शक्यते ।
स्वभार्या प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ ९४ ॥