पृष्ठम्:हितोपदेशः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२) [ हितोपदेशे- कथा १, अहमेकदा दक्षिणारण्ये चरनपश्यम् । एको वृद्धव्याघ्रः स्नात कुश- हस्त. सरस्तीरे बूते-* भोभो पान्थाः । इद सुवर्णकङ्कण गृह्यताम् । ततो लोभाकृष्टेन केनचित्पान्थेनालोचितम्- भाग्येनैतत्सभवति । कि त्वस्मिनात्म- सन्देहे प्रवृत्तिन विवेया । यत - अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा। यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ॥५॥ कितु सर्वत्रार्थार्जने प्रवृत्ति सदेह एव । तथा चोक्तम् । न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यात ॥ ६ ॥ तनिरूपयामि तावत् । प्रकाश ब्रूते-* कुत्र तव कङ्कणम् १ ' व्याघ्रो हस्त प्रसार्य दर्शयति । पान्थोऽवदलु-कथ मारात्मके त्वयि विश्वास १' व्याघ्र उवाच- “ऋणु रे पान्थ ! प्रागेव यौवनदशायामतिदुर्वृत्त आसम् , तत अनेकगोब्राह्मण- मानुषाणा वधान्मे पुत्रा मृता दाराश्च वहीनश्चाहम् । तत. केनचिद्धार्मिकेणा- मादिष्ट.--* दानवर्मादिक चतु भवान् ।' तदुपदेशादिदानीमह स्नान- शीलो दाता वृद्धो गलितनखदन्तो न कथ विश्वासभूमि १ उक्त च- इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥ ७ ॥ तत्र पूर्वश्चतुर्वग दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वग महात्मन्येव तिष्ठति ॥ ८ ॥ मम चैतावॉलोभविरहो येन स्वहस्तस्थमपि सुवर्णककण यस्मै कस्मैचिद्दातु- मिच्छामि । तथापि व्याघ्रो मानुष खादतीति लोकप्रवादो दुर्निवार । यत -- गतानुगतिको लोकः कुट्टिनीमुपदेशिनीम् । प्रमाणयात नो धर्मे यथा गोन्नमपि द्विजम् ॥ ९ ॥ मया च धर्मशास्त्राण्यधीतानि । शृणु- मरुस्थल्या यथा वृष्टिः क्षुधातें भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डुनन्दन ॥ १० ॥