सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(११४)
[हितोपदेशे-
 


 यावदेकैकशो मत्स्यान् पक्तिक्रमेण विकिरत, ततस्तदाहारलुब्धैर्नकुलैस्तद्वर्त्मना - गत्य सर्पों द्रष्टव्य. स्वभावद्वेषाद्वयापादयितव्यश्व । ' तथानुष्ठिते तद्वृत्तम् । तत- स्तत्र वृक्षे नकुलैर्वकशावकराव श्रुतः, पश्चात्तैर्वृक्षमारुह्य बकशावका खादिता । अत आवा ब्रूव - ' उपायं चिन्तयन् ' इत्यादि ॥

 आवाभ्या नीयमान त्वामवलोक्य लोकै किञ्चिद्वक्तव्यमेव । तदाकर्ण्य यदि त्वमुत्तर दास्यसि तदा त्वन्मरणम्, तत्सर्वथात्रैव स्थीयताम् । ' कूर्मो वदति- किमहमप्राज्ञ. १ नाहमुत्तर दास्यामि, किमपि न वक्तव्यम् । ' तथानुष्ठिते तथावि कूर्ममालोक्य सर्वे गोरक्षका पश्चाद्धावन्ति वदन्ति च - " अहो महदा- 'श्चर्यम् । पक्षिभ्या कूर्म. समुह्यते । कश्चिद्वदति - ' यद्यय कूर्म पतति तदात्रैव पक्त्वा खादितव्य' । ' कश्चिद्वदति - ' अत्रैव सरस्समीपे दग्ध्वा खादितव्यो- ऽयम् ।'कश्चिद्वदति-' गृहं नीत्वा भक्षणीय ' इति । तत्परुषवचन श्रुत्वा स कूर्म कोपाविष्टो विस्मृतपूर्वसस्कार प्राह - ' युष्माभिर्भस्म भक्षितव्यम् ।' इति वदन्नेव पतितस्तैर्व्यापादितश्च । अतोऽह ब्रवीमि 'सुहृदां हितकामानाम्' इत्यादि ॥

 अथ प्रणिचिर्चकस्तत्रागत्योवाच- ' देव । प्रागेव मया निगदितम् । दुर्ग- शोधन हि प्रतिक्षण कर्तव्यमिति तच्च युष्माभिर्न कृम्, तदनववानस्य फलमनु- भूतम् । दुर्गदाहो मेघवर्णेन वायसेन गृध्रप्रयुक्तेन कृत' । ' राजा निश्वस्याह-

'प्रणयादुपकाराद्वा यो विश्वसिति शत्रुषु ।
स सुप्त इव वृक्षाग्रात्पतितः प्रतिबुद्धयते ॥ ११ ॥

'  प्रणिधिरुवाच - ' इतो दुर्गदाह विधाय गतो मेघवर्णस्तदा चित्रवर्णेन प्रसा - दितेनोक्तम्- ' अयमेववर्णोऽत्र कर्पूरद्वीपराज्येऽभिषिच्यताम् । तथा चोक्तम्-

कृतकृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् ।
फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ १२ ॥ '

 चक्रवाको ब्रूते - ' देव । श्रुत यत्प्रणिविः कथयति १ राजाह - ' ततस्तत' ।' प्रणिविरवोचत्-तत प्रधानमन्त्रिणा गृत्रेणाभिहितम् -' देव । नेदमुचितम् । प्रसादान्तर किमपि क्रियताम् ॥ यतः-