पृष्ठम्:हितोपदेशः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१०२)
[हितोपदेशे-
 

,

धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् ।
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ १०३॥'

 शक्तिधरमातोवाच- अस्मत्कुलोचित यद्येतन्न कर्तव्य तदा गृहीतराज- वर्तनस्य निस्तार कथ भविष्यति १' इत्यालोच्य सर्वे सर्वमङ्गलाया स्थान मता । तत्र सर्वमङ्गला सपूय वीरवरो ब्रूते-देवि । प्रसीद विजयता विजयत' शूद्रको महाराज', गृह्यतामुपहार इत्युक्त्वा पुत्रस्य शिरश्चिन्छेद । ततो वीरवरश्चिन्तयामास- गृहीतराजवर्तनस्य निस्तार कृत , अधुना निष्पुत्रस्य जीवनेनालम् ' इत्यालोच्यात्मन शिरश्छेद कृत । तत स्त्रियापि स्वामिपुत्र- गोकार्तया तदनुष्टितम् । एतत्सर्व दृष्ट्वा राजा साश्चर्य चिन्तयामास-

'जीवन्ति च म्रियन्ते च मद्विधाः क्षुद्रजन्तवः। अनेन सदृशो लोके न भूतो न भविष्यति ॥ १०४ ॥

 तदेतेन परित्यक्तेन मम राज्येनाप्यप्रयोजनम् ।' तत शूद्रकेणापि शिर- श्छेत्तु खड्ग समुत्थापित । अथ भगवत्या सर्वमगलया प्रत्यक्षभूतया राजा हस्ते वृत उक्तश्च-'पुत्र । प्रसन्नास्मि ते, एतावता साहसेनालम्, इदानीं ते राज्य- भङ्गो नास्ति ।' राजा च साष्टाङ्गपात प्रणम्योवाच- देवि ! कि मे राज्येन, जीवितेन वा कि प्रयोजनम् १ यद्यहमनुकम्पनीयस्तदा ममायु शेषेणाय सदार- पुत्रो वीरवरो जीवतु । अन्यथाह यथाप्राप्ता गति गच्छामि ।' भगवत्युवाच- 'पुत्र । अनेन ते सत्त्वोत्कर्षेण मृत्यवात्सल्येन च सर्वथा तुष्टास्मि गन्छ, विजयी भव, अयमपि सपरिवारो राजपुत्रो जीवतु ' इत्युक्त्वा देव्यदृश्याभवत् । ततो वीरवर सपुत्रदारो प्राप्तजीवन स्वगृह गत । राजापि तैरलक्षित सत्वरमन्त पुर प्रविष्ट. । अथ प्रभाते वीरवरो द्वारस्थ पुनर्भूपालेन पृष्ट सन्नाह-'देव । सा रुदती स्त्री मामवलोक्यादृश्याभवत्, न कायन्या वार्ता विद्यते । तद्वचनमाकर्ण्य सतुष्टो राजा साश्चर्यमचिन्तयत्-' कथमय श्लाघ्यो महासत्त्व । यत

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी च प्रगल्भः स्यादनिष्ठुरः ॥ १०५॥ n