सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(१००)
[ हितोपदेशे-
 


आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतार्यते ॥ ९९ ॥ '

मन्त्रिणा विहस्योच्यते- ' सर्व सत्यमेतत् । कि तु— -

अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुत ॥ १०० ॥

'

 तत उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थित' । अथ प्रहितप्रणिधिर्हिरण्य- गर्भसमीपमागन्य प्रणम्योवाच- ' देव । समागतप्रायो राजा चित्रवर्ण । प्रति मलयपर्वतावित्यकाया समावसिन्कटकोऽनुवर्तते । दुर्गशोधन प्रतिक्षणमनुसवा- तव्य यतोऽसौ वो महामन्त्री । कि च केनचित्सह तस्य विश्वासकथाप्रसङ्गेनैव तदङ्गितमवगत मया यदनेन कोऽप्यस्मदुर्गे प्रागेव नियुक्तः । चक्रो ब्रूते- देव 1 काक एवासौ सभवति ।' राजाह--' न कदाचिदेतत् । यद्येव तदा कथ तेन शुकस्याभिभवोद्योग' कृत । अपर च शुकस्यागमनात्तस्य विग्रहोत्साह । स चिरादत्रास्ते ।' मन्त्री ब्रूते - - ' तथाऽप्यागन्तु शङ्कनीय' । ' राजाह -- आगन्तुका हि कदाचिदुपकारका दृश्यन्ते । शृणु--

परोऽपि हितवान्बन्धुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥ १०१ ॥

अपर च-

आसीद्वीरवरो नाम शूद्रकस्य महीभृतः ।
सेवकः स्वल्पकालेन स ददौ सुतमात्मनः ॥ १०२ ॥

 चक्र पृच्छति-- ' कथमेततु " राजा कथयति -

कथा ८.

 अह पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवानभवम् । तत्र वीरवरो नाम महाराजपुत्रः कुतश्चिद्देशादागत्य राजद्वारमुपगम्य प्रतीहारमुवाच - ' अहं तावद्वेतनार्थी राजपुत्र | मा राजदर्शन कारय ।' ततस्तेनासौ राजदर्शनं कारितो ब्रूते - ' देव । यदि मया सेवकेन प्रयोजनमस्ति तदास्मद्वर्तन क्रियताम् ।' शूद्रक उवाच - " किं ते