पृष्ठम्:हस्त्यायुर्वेदः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असृग्गभे शयानस्य यस्य वेष्टौ निषेवते ॥ विषाणे तस्य जायेते वारणस्य मधुमभे ॥ ६६ ॥ भन्दीभूतो यदा वायुर्दन्तवेष्टी निषेवते । म्लाने विषाणे तेनास्य जायेते ग्रन्थपोऽपि वा ॥ ६७ ॥ दन्तयोर्मारुतो यस्य मूलयोनवतिष्ठति(ते) ॥ समदन्तस्ततो नागो जायते नात्र संशयः ॥ ६८ ॥ संजातदन्तवेष्टस्य मुखे कुप्यति मारुतः ॥ विषाणावुपहन्येते मूढस्लेनोपजायते ॥ ६९ ॥ नवमे दशमे वाऽपि हस्तिनी यदि पीडिता । निःस्रायां खरीभूतो भृशं कोपमुपागतः ॥ ३७० ॥ यचूंष्मसहितो वायुर्दन्तमूले निषेवते ॥ विषाणावुपहन्येते मत्कुणस्तेन जायते ॥ ७१ ॥ वायुर्गर्भ शयानस्य दन्तमूले निषेवते ॥ न तत्र दन्तौ जायेते यत्र कुप्यति मारुतः ॥ ७२ ॥ यस्यैकदन्तवेष्टं तु मारुतः संनिषेवते । एकदन्तः स मातङ्गो जायते नात्र संशयः ॥ ७३ ॥ यस्य पोतस्य जातस्य मूतै कुप्यति मारुतः ॥ संजातदन्तवेष्टस्य एकमात्रोपहन्यते ॥ ७४ ॥ (*एकभावस्तु संपूर्ण यत्र वातो न कुप्यति ॥ वामोन्नतो वा भवति त्वथवा दक्षिणोन्नतः ।। ३७५ ।। एकः संजायते तत्र एकश्चैवोपहन्यते ॥) वायुर्गर्भ शयानस्य कुप्यत्येकाङ्गसंधिषु ॥ ७६ ॥ म्लानगात्रः स मातङ्गो जायते नात्र संशयः ॥ असृग्गभे शयानस्य वारणस्योपहन्यते ॥ ७७ ॥ मारुतेन यदा राजन्स्तब्धस्तेन निपच्छति ॥ हस्तिन्यां तु प्रहृष्टायां प्रभिन्नेनाथ जायते ॥ ७८ ॥ ४३

  • अयं सार्धश्लोकः ‘वायुर्गभे-इत्यधत्तरं कपुस्तके।

१ क. जायन्ते । २ क. निन्नेहानां । ३ क. ख. "यूष्मास"। ४ क. “स्तेनो पजायते ॥ ह० ।