पृष्ठम्:हस्त्यायुर्वेदः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । वातः पित्तं च श्रेष्मा च चक्षुष्याधीयते यदि । सत्पक्षासनमातङ्गो जायते नात्र संशयः ॥ ४१ ॥ पित्तं रुधिरसंसृष्टं चक्षुषी नु व्रजेद्यदि । काकाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ४२ ।। संश्लिष्टं क्षेष्मणा पित्तं चक्षुषी यदि गच्छति ॥ चेताक्षस्तेन मातङ्गः कालवारक एव च ॥ ४३ ॥ असृग्गर्भ शयानस्य यदि चक्षुषि लीपते ॥ पारापताक्षः स गजो जायते नात्र संशयः ॥ ४४ ॥ रकं श्रेष्मा च पित्तं चे यदि चक्षुषि लीयते ॥ मध्वक्षस्तेन मातङ्गां जायते नात्र संशयः ॥ ३४५ ॥ विषमाक्षश्च वातेन विरुपाक्षश्च जायते ॥ नानानिमेषो मातङ्गः पित्तश्लेष्मगतिर्हि सैः ॥ ४६ ॥ विषमेष्वतिभारेण हस्तिनी यदि पीडिता ॥ मिथ्याकर्मणि आयासादूष्मा संजायते भृशम् ॥ ४७ ॥ नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा नृप ।। ४८ ।। ऊष्मणा पच्यमानस्य चक्षुर्हन्येत हस्तिनः ।। जात्यन्धस्तेन मातङ्गो जायते नात्र संशयः ॥ ४९ ॥ गर्भ यदा शयानस्य जानुनी प्रतिपद्यते ॥ उभयोर्गात्रयोरन्तर्मारुतः संचरेनृप ॥ ३५० ।। निर्भुज्यते स गात्रेषु विकटस्तेन जायते । वारणः पृथिवीपाल नास्ति तत्र विचारणा ॥ ५१ ॥ पृथुत्वाश्चानु नागानां रोमकूपैर्न गच्छति । प्रस्वेदः पृथिवीपाल शीशसात्म्या ह्यातः स्मृता ।। ५२ ।। स्रायुबद्धा छविचैषां गाढरोमा च जायते ॥ अन्तःस्वेदा बलाधिक्यात्तस्मान्नागां नृपोत्तम ॥ ५३ ॥ ३१ १ क. च चक्षुषी यदि ली° । २.क. सा । ३ क. *षु कीक° । ४ क. ९गातृपो” ।