पृष्ठम्:हस्त्यायुर्वेदः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकांप्यमुनिविरचितो- [३ शल्यस्थाने (पित्तं क्षेष्मा च वातश्च प्रपद्यन्ते यदि त्वचम् ॥ इपामः परुषवर्णाभो निःश्रेहस्तेन जायते ॥ २८ ॥ कफस्त्वनिलसंमृष्टस्त्वत्वं यद्यनुगच्छति ॥ हरितारुणवर्णाभो निःक्षेहस्तेन जापते ॥ २९ ॥) अग्गर्भशयानस्य ( tत्वचं चेदनुधावति ॥ हरिः श्यामोऽथ रक्तो वा स तु रक्तच्छविर्भवेत् ॥ ३० ॥ वायुः पित्तं च रतं च त्वचं ह्यनुविधावति ॥ ततोलूकसवर्णाभा छविनभस्य जायते ॥ ३१ ॥ पित्तं गर्भ शापानस्य नखेषु यदि लीयते ॥ संभवेयुर्नस्वाः काला वारणस्य महीपते ॥ ३२ ॥ श्लेष्मा पित्तेन संसृष्टो नखेषु यदि लीयते ॥ श्यामान्येव नखानि स्युरत्र मे नास्ति संशपः ॥ ३३ ॥ क्षेपमा गर्भ शायानस्य ) नखेष्वालीयते यदि । श्वेतान्येवं नस्वानि स्युरत्र मे नास्ति संशयः ॥ ३४ ॥ पित्तं गर्भ शयानस्य तालुके यदि जायते ॥ तेनास्य तालुकं कृष्णं जायते नात्र संशयः ॥ ३३५ ।। कफः पित्तं च वातश्च तालुके लीयते यदि । कल्माषपतालुर्मातङ्गः संभवेन्नात्र संशयः ॥ ३६ ॥ असृग्गर्भ शयानस्य तालुके यदि लीयते ॥ तेन पद्मपलाशाभं तालु नागस्य जायते ॥ ३७ ॥ तालुके चैव व्याख्यातं जिह्रैौठं दन्तिनां शृणु ॥ रतं नीलं तु कल्माषं वातपित्तकफादिभिः ॥ ३८ ॥ पित्तं रुधिरसंमृष्टं चक्षुष्याधीयते यदि । पिङ्गाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३९ ॥ कफोऽनिलेन संसृष्टश्चक्षुश्रेत्प्रतिपद्यते। हर्यक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ३४० ॥

  • धनुराकारमध्यस्थौ क्षेोकैौ न स्तः खपुस्तके । ' धनुराकारमध्यस्थाः श्लोका

भ्रष्टाः खपुस्तके ।। १ क. पिशङ्गास्तेन मातङ्गा जायन्ते ना० ।