पृष्ठम्:हस्त्यायुर्वेदः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भवक्रान्त्यध्यायः ] . हस्स्यायुर्वेदः । । मोहाद्वन्धप्रमादाद्वा बन्धादुद्विजते द्विपः ॥ दन्तिनां तु विशेषेण तत्प्रमाणाधिको हि पः ॥ १४ ॥ संबन्धो बन्धकुशलैर्गुरुरित्यभिशब्दितः ॥ उच्छासमुपरुन्ध्याद्यो गात्रसंचारमेव वा ।। ३१५ ॥ संबन्धसंज्ञया तज्झैरत्यायूत इति स्मृतः । भूयश्चोपरिविक्षेपादेलकाङ्कक्षा(?) च पोगतः ॥ १६ ॥ सोऽतिप्रबन्धो विज्ञेपो बन्धो यो दुष्प्रमादतः । एवं दीषं व्यवस्यन्ति तस्मादभ्यधिको हि यः ॥ १७ ।। . परिक्षेपातिबाहुल्याद्दन्तिनां हस्तिनां परे ॥ एवं बन्धोद्रवैर्देषैः प्राप्नुवन्त्यत्र कुञ्जराः ॥ १८ ॥ रोगांश्च दोषेर्गात्राणां हाँनेिं च बलतेजसाम् । कर्मणाऽतिप्रवृद्धेन पोत्फुरानजेन वा ॥ १९ ॥ तथा च क्रिपमाणेन 'नित्यं दुष्यन्ति वारणाः ।। ३२० ॥ यो हि जातिविभागं तु सत्त्वानूषकं च तन्वतः । अबुद्ध्वा योजयेत्कर्म स भद्रानपि दूषपेत् ॥ २१ ॥ यस्तु लक्षणनिर्देशं विदित्वा कर्म योजयेत् ।। असंशयं स मतिमान्संकीर्णानपि साधयत् ॥ २२ ॥ अन्योन्यकर्मव्यत्यासात्तेषु सिद्धिर्न विद्यते । पंथोपदेशयोगाद्धि सर्वाः सिध्यन्ति जातयः ॥ २३ ॥ पित्तं गर्भ शयानस्य त्वचं चेत्प्रतिपद्यते ॥ कालो भवति मातङ्गो ह्यरूक्षस्निग्धदर्शनः ॥ २४ ॥ श्लेष्मा मारुतसंसृष्टस्त्वचं यद्यनुगच्छति । (*श्यामो भवति मातङ्गो ह्यरूक्षः स्निग्धदर्शनः ॥ ३२५ ।। क्षेष्मा गर्भ शयानस्य वचं वेत्प्रतिपद्यते ॥ हरिर्भवति मातङ्गो ज्ञरूक्षः स्रिग्धदर्शनः ॥ २६ ॥ कालः परुषवर्णाभो निःस्रोहस्तेन जायते ॥ २७ ।।

  • धनुराकारमध्यस्थो नास्ति पाठः खपुस्तके ।

१ क. "कायापि यो । २ क. ध्वनिं । ३ क. दुष्यति वारणः ॥ ४ कु.