पृष्ठम्:हस्त्यायुर्वेदः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ गर्भावक्रान्त्यध्यायः] : हस्त्यायुर्वेदः । ४२७ मृगस्वरूपसंपन्नो मन्दश्चेचे)ष्टश्च वारणः ।। इत्येकरुपयोगेन त्रयोऽन्यमनसो गजाः ।। २८५ ॥ तथा मन्दमृगश्चापि भृगत्वं मनसा गतः । मृगमन्दश्च भद्रश्च मनसाऽपि गतः सदा ॥ ८६ ॥ सर्वेभद्रस्तथा चैव भवेद्भद्रमना गजः ।। एवं त्रयश्च षट् द्वौ च नवान्यमनसो गजाः ॥ ८७ ॥ वक्ष्यन्ते द्वित्रिरुपाश्च तथा स्वमनसो नव ।। द्विरुपसंकरे पञ्च नाम पूर्वं निपात्यते ॥ ८८ ।। तस्मिन्करोति तत्सत्वमिति सर्वेषु निश्चयः ॥ भद्रमन्दोऽपि यस्तत्र स भद्रो भन्नसा भवेत् ॥ ८९ ॥ तथा भद्रमृगो यश्च सोऽपि भद्रमना गजः ॥ मन्दभद्रश्च मन्दत्वं चेतसाऽपि भिद्यते ॥ २९० ।। मृगता मृगभद्रस्य व्यतिक्रमणचेतसः । मृगमन्दो मृगत्वं च मनसा संप्रकाशयेत् ॥ ९१ ॥ तैथा मन्दमृगो यश्च मन्दत्वं मनसा गतः । मृगतां मृगभद्रश्च संप्राप्तश्चेतसा गजः ॥ ९२५ ॥ मृगमन्दो मृगस्यैव मनसा संप्रकाश्यते । इति द्विरुपयोगेन षडेते परिकीर्तिताः ॥ ९३ ।। त्रिरुपाश्च त्रयोऽन्ये तु स्वमनोभिः समन्विताः । त्रिरूपसंकरे चास्मिन्समर्नस्त्वः स्थितिर्भवेत् ॥ ९४ ॥ इत्येष बुद्धिप्रसरश्चिन्ताविद्येन पच्यते । एवं नव नवैवोक्ताः पुरस्तात्परिसंख्यया ।। २९५ ॥ अष्टादशैव संकीर्णाः काश्यपेनोपपादिताः ।। मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा ॥ ९६ ॥ मृगो मन्दमनाश्चान्ये व्यतिकीर्णश्च वारणः ॥ ९७ ।। इति जाताः षडेवात्र जातितन्त्रोपदेशवित् । निश्चित्य बुद्धो भगवान्गजानामाह गौतमः ।। ९८ ।। मृगो भद्रश्च मन्दश्च मन्दो मृगमनास्तथा । चतस्रो जातयस्त्वेवं राजपुत्रमते स्मृताः ।। ९९ ।। १ क. *तसा । मृ° । २ क. यथा । ३ क. “गचैव । ४ क "नस्त्वस्थि भिर्भ० । ६ ख. जाती । ६ क. "देशिवत् ।