पृष्ठम्:हस्त्यायुर्वेदः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदा सु वते नागो वशामृतुमतीं नृप । ततस्तु युगपच्छुक्र असिच्येत यदृच्छया ॥ ४४ ॥ करोति मारुतस्तश्चेच्छुक्र मणिहितं द्विधा ॥ यमके मिथुनं तत्र जायते नात्र संशयः ॥ १४५ ॥ रसं तीक्ष्णं यदाऽभक्षिणं निषेवेत मतङ्गजः ॥ कटुकं च कषायं च रुक्ष,चैव महीपते ॥ ४६ ॥ मृदा सैमुपदिग्धं च प्रावृट्टाले च वारणः ॥ असंजातरसं स्वदेद्गर्भ यवसं यदा ॥ ४७ ॥ यथेष्टं हस्तिनी वाऽपि रसॉनेतान्निषेवते ॥ यदा भवति संयोगस्तस्मिन्काले यदृच्छया ॥ ४८ ॥ नागे संजायमाने तु हस्तिनी व्यतिरिच्यते ॥ शुक्ररक्तसभायोगाद्योन्यां कुप्यति मारुतः ॥ ४९ ॥ दौर्बल्याश्चापि शुक्रस्य रसहीनतयाऽथवा ।। यदि प्रादुर्भवेद्भर्भस्तस्मिन्काले यदृच्छया ॥ १५० ॥ षण्ढः संजायते तेन वातोपहतपौरुषः ।। षण्ढा चाऽपि महीपाल हस्तिनी नात्र संशयैः ॥ ५१ ॥ ४१ दलीसंतानभक्षाणां पित्तधातुर्विवर्धते ॥ कटुम्ललवणप्राये काले कफैविघातने ।। ५२ ॥ रक्तभांसक्षयकरैर्मनोदेहाभिपातनैः ॥ वृष्टेरुपरमाद्वाऽपि शुतोदकबलाहके ॥ ५३ ॥ शरत्काले निदाघे वा तत्समानगुणे ऋतौ । मध्याद्वे मध्यरात्रे वा ऋतौ तुल्ये तयोर्द्धयोः ॥ ५४ ॥ वशोपनीतप्रकृतिः पित्तेनाधिककर्मणा ॥ शुद्धः संजायते जात्या मृगनामा मतङ्गजः ॥ १५ ॥ तस्यैव संप्रवक्ष्यामि सत्त्वाकारमसंशयम् ॥ वनचयक्रियाणां च लक्षणं प्रविभज्यते ।। ५६ ।। तनुत्वकर्णपादो यस्तन्वास्यस्तनुमेहनः ॥ तनुवंशोदरश्चैव तनुव्यक्ततनूरुहः ॥ ५७ ॥ १ क. मृदु । २ ख. समुपदग्धं । ३ क. खादेद्भर्भ यवसकं य” । ४ क. ख. ०सान्नेता० । ५ क.१०य ॥ बली० । ६ ख. ०फनिघातनैः ।। र°। ७ क. ०नैः । दृष्टेरुपरमे वाऽपि । ८ क. ०दरव० ।