पृष्ठम्:हस्त्यायुर्वेदः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ धमन्यश्चेति नागानां विज्ञेया मातृजा गुणाः ॥ शरीरं बलवृद्धिस्तु गर्भस्य रसजाः स्मृताः ॥ रसस्य मणनं कर्म जीवनं शोणिसस्य च ॥ ३२ ॥ मलेपनं च मांसस्य छेदो वणर्म च मेदसः ॥ देहधारणमस्भां च मज्झचैवास्थिपूरणम् ॥ ३३ ॥ संभूतमथ गर्भस्थं वायुर्जीवपति द्विपम् ॥ शरीरे चान्तरिक्षे च दिव्यो राजन् महाबलः ॥ ३४ ॥ भगवाञ्जीव इत्येष सर्वप्राणभृदीश्वरः ॥ शरीरस्थोऽप्यदृश्पश्च वायुरित्युच्यते बुधैः ॥ १३५ ॥ ("यदा शिशुर्विचरति जातमात्रो गर्भाशयाद्भर्भनिरोधमुक्तः ॥ तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥ ३६ ॥ प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥ तदाऽभिलाषाङ्गविचारणं च वातो हि सर्वस्य भवेद्धि कर्ता)॥३७॥ पूर्वे तु यदि मातङ्गः शुक्रमाक्रम्य तिष्ठति ॥ जनपेत्तत्र मातङ्गमत्र मे नास्ति संशयः ॥ ३८ ॥ संगमे तु यदा राजन्नतं मुञ्चति धेनुका। जनयेद्धस्तिनीं तत्र क्षिप्रमेव महीपते ॥ ३९ ॥ ऋतौ नित्यं यदा राजन्धेनुकां पुवते गजः ॥ ततः शुक्रे प्रथमतो वारणस्य प्रसिच्यते ॥ ४० ॥ तचेत्मणिहितं शुक्र करोति पवनो द्विधा ॥ जायेते यमकौ पोतौ तत्र मे नास्ति संशयः ॥ ४१ ॥ ऋतौ यदि समुत्पन्ने धेनुकां प्रवते गजः ॥ धेनुकायाः प्रथमतस्तत्र रक्त प्रसिच्यते ॥ ४२ ॥ द्विधा करोति तद्वायुर्मुश्चेत्प्रणिहितं यदि ॥ भवत: पोतिके तत्र अत्र नास्ति विचारणा ॥ ४३ ॥ धनुराकारमध्यस्थौ झोकौ पूर्वाध्यायस्य गर्भसंभवाख्यस्य चरमलिखित केवलं खपुस्तके पुनरुक्तौ। कपुस्तके तु , प्रकृताध्यायप्रारम्भे कृतप्रश्नानामेतदुत्तरकानुयो १ ख. प्रीणनं । २ ख. धेनुकम् । ३ क. “मकोपेतैौ ॥ ४ क. मात्र ।