पृष्ठम्:हस्त्यायुर्वेदः.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवोपजीवमाश्रित्य गभे भवति कालतः ॥ रसेन प्रीणितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥ जरायुणा मुखे च्छन्ने कण्ठे च कफवेष्टिते ॥ वायोर्गतिनिरोधाञ्च गर्भस्थो न रोदिति ॥ ३ ॥ मलाल्पत्वाद्योगाश्च वायोः पक्काशयस्य च ॥ वातमूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥ सूक्ष्मत्वाद्विशदत्वाच नात्र किटं भशस्यते ॥ नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ॥ १०५ ॥ मात्रोपयुक्तान्देहस्थो गर्भ वहति वै रसान् ॥ चतुर्भागेन चांशेन गर्भ प्रीणाति हस्तिनी ॥ ६ ॥ नाडी रसवहा ज्ञेया तया गर्भः स जीवति । ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ।। ७ ।। ज्ञानं च रसवीर्याभ्यां संभूयाऽऽशु विवर्धते । बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ॥ अष्टमे स्थिरसर्वाङ्गः संधिस्रायुसमन्वितः ॥ त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥ नवमे दशमे चैव भवेदेकादशेऽपि वा । द्वादशे वा गजो राजञ्जायते नात्र संशयः ।। ११० ॥ नृप या द्वादशे मासि गर्मिणी न प्रसूयते ॥ इदं तु कारणं तस्या विज्ञेयं नरसत्तम ॥ ११ ॥ क्षीणशोणितमांसाया रुक्षशुष्काशनाद्रवेत् ॥ अध्वनो गमनाद्भाराद्धन्धनाच श्रमाद्भयात् ॥ १२ ॥ गर्भ मुह्यति हस्तिन्या वायुना परिशोषितः ॥ न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥ न गच्छांत विनाशं च न च काले प्रसूयते ॥ अल्पमाणा निरुत्साहा गर्भशय्यां न मुञ्चति ॥ १४ सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि ॥ धेनुर्बन्धांकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥ f ‘अयमर्धश्लोकः ‘नाभ्यां -इत्यर्धतः परं पाठ्यः’ इति प्रतिभाति । । १ क. ०र्भागो नवांशे " | ९ क, “नं सर° । ३ क. "म्यां स भूयार्वेिव " । ४ क, राजसत्तम ।