पृष्ठम्:हस्त्यायुर्वेदः.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूतान्येतानि कथ्यन्ते पध खलु देहिनाम् ॥ समवापः पुनस्तेषां योन्यां कललसंह्नितः ॥ ९० ॥ कललस्य परीणामात्स्वरत्वमुपजायते ॥ खरीभवति तद्राजन्विदाहेन स्वतेजसा ॥ ९१ ॥ स्वरस्य च परीणामादर्बुदं नाम जायते । अर्जुदस्य परीणामात्पेशी स्यादिति निश्चयः ॥ ९२ ॥ ततोऽस्य शाखा जायन्ते तथा विद्धि नराधिप ॥ गर्भस्पेहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥ यथा मधूच्छिष्टकृतं रुपमन्वेति विग्रहः । स्त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ ९४ ॥

  • पर्वभिस्तु यथा सर्वेणुरुत्पद्यते नृप ॥

सर्वेरङ्गस्तथा सूक्ष्मैजतैर्गभो विवर्धते ॥ ९५ ॥ शुक्रे रजो मलचैव गर्भस्थस्य न जायते ॥ चतुर्थे मासि जायन्ते स्राय्वस्थीनि सिरास्तथा ॥ ९६ ॥ जापते तस्य निर्तृत्तिरङ्गानां तु महीपते ॥ निर्तृत्तिरनुपूर्वेण यथावच्छूोतुमर्हसि ॥ ९७ ॥ शिरो ग्रीवा च पृष्ठं च कर्णौ चाऽऽस्यं करस्तथा ॥ गात्रापरमथो बालस्तथा निष्कोश एव च ॥ ९८ ॥ उरस्तथाऽऽयामकाण्डमानुपूव्यन्नराधिप ॥ छवी च पञ्चमे मासि यथावत्प्रविभज्य च ॥ ९९ ॥ चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च ॥ दृष्कौ नखानि रोमाणि यकृदब्राणि पुष्फसम् ॥१००॥ व्यज्यते हृदयं चैव षष्ठ मासि नराधिप ।। संभवन्ति महीपल गर्भस्थस्येह दन्तिनः ।। १०१ ॥

  • गर्भस्य हि संभवतः पूर्वं शिरं , संभवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रि

याणाम् । दृदयमितेि कृतवीर्यो बुद्धमेनसश्च स्थानत्वात् । नाभिरिति पाराशर्यः, तो हि वर्धते देहो देहिनः । पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाचेष्टाया गर्भस्य । मध्यश रीरमिति सुभूतिगौतमस्तन्निबन्धनत्वात्सर्वगात्रसंभवस्य । ततु न सम्यक् । सर्वाङ्गप्रत्य ङ्गानि संभवन्तीत्याह धन्वन्तरिः । गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्करवचूतफलवच । तद्यथा-चूतफले परिपके केशरमांसास्थिमज्जानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव तरुणे नेोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति । एतेनैव वंशाङ्करोऽपि व्याख्यातः’ इति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दर्शितः ॥