पृष्ठम्:हस्त्यायुर्वेदः.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरवितो- [ ३ शल्यस्थाने सदा प्रहृष्टा नागस्य दन्तमालिङ्गय तिष्ठति । करवक्त्रौष्ठमेण्ट्राणि परिजिप्रति सर्वतः ॥ संग्राय चास्य गात्राणि गुह्यानि च विशेषतः ॥ ४८ ॥ वृक्षादाकृष्य शाखां च फुछबीजानि वारणम् ॥ कुमुदोत्पलपत्रैश्च सरःसृ सलिलेन च ॥ ४९ ॥ कर्दमेन च शीतेन स्थले सिञ्चति पांशुना ॥ पक्षेण पक्षं चाऽऽहत्य मुखं जिन्नति दन्तिनः ॥ ५० ॥ न चातिमात्रमादत्ते भक्ष्यं कुञ्जरसंनिधौ। नैवाऽऽसीनं शयानं वा साऽपीष्टं निशि चाहनि ॥ ५१ ॥ हस्तिन्तुमती नागं न मुञ्चति कदाचन ॥ तत्तदेव करोत्पस्य येन पेनै प्रहृष्यति ॥ ५२ ॥ फलमादाय रुचिरं मृणालं चापि शैवलम् ॥ गजस्य वक्त्रेऽर्पयति हस्तिनी मदनानुरा ॥ ५३ ॥ यदा देशे मनोज्ञे तु पुनस्तिष्ठति वारणः ॥ तदा विषाणमालिङ्गश्य हृष्टा नागस्य तिक्षति ॥ ५४ ॥ एभिर्विद्यादृतुमतीं लिङ्गेर्गजवशां बुधः ॥ भूवनस्पतितोपेषु स्त्रीषु च श्रुतिरीदृशी ॥ ५५ ॥ ब्रह्महत्या महेन्द्रेण कृत्वा संक्रामित पुरा ॥ स्त्रियविरान्प(?)गम्याहुत्रिलोकेशं शतक्रतुम् ॥ ५६ ॥ तस्माद्वारयितुं शक्ता ब्रह्महत्या शचीपतिः । प्रायश्चित्तं ततस्तासामादिदेश अकुशास्तरे ॥ ५७ ॥ वासोभिर्मलिनैर्भूमौ ब्रह्मचर्यसमन्विता ॥ स्थाने च शयने चैव रजः प्रस्रवतु यहम् ॥ ५८ ॥ मासि मासि करिष्यन्ति प्रायश्चित्तमिमं स्रियः । ब्रह्महत्याविमुक्तास्ता गमिष्यन्ति शुभां गतिम् ॥ ५९ ॥ प्रायश्चितोपदेशाद्धि मानुषीणां रजः श्र(स्रवेत् । पुष्पं पत्र स्थितं शुद्धं हस्तिनीनां निसर्गतः ॥ ६० ॥

  • कुशोत्तरे’ इति स्यात् ।

१ क. दावृक्षशा० । २ क. ०न प्रकारेण प्र० । ३ क, मनोऽन्ये । ४ क. कुशान्तरे ।