पृष्ठम्:हस्त्यायुर्वेदः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ पालकाप्यमुनिषिराखितो- [ १ शाख्यस्थाने कथं कल्माषजिो वा गजो भवति जातिवः । पिङ्गलः केन भवति भध्वक्षः केन जापते ॥ १९ ॥ हर्यक्षः केन नागः स्यात्काकाक्षः केन जायते । अक्षिणी केन श्छे तु कालतारे पुनः कथम् ॥ २० ॥ गजः पारापताक्षो वा कथं भवति जातितः ॥ विकृताक्षो विरुपाक्षो जातान्धो वाऽपि वारणः ॥ २१ ॥ केन जायते वै नागः कालः पिङ्गललोचनः ।। केन मुंखाच हस्ताच स्वेदो भैवति दन्तिनः ॥ २२ ॥ कस्मिन्देशे च वृषणावदृश्यौ केन वा पुनः । म्लानशीर्षे म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥ हस्ववालश्च मातङ्गो दीर्घवालः कथं भवेत् । । विषमाभ्यां च कर्णाभ्यां पुटकर्णश्च वारणः ॥ २४ ॥ नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥ कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः । कुब्जः किलासमेढ़श्च कथं भवति वारणः ॥ २६ ॥ अतिश्वेताश्च ये दन्ता ये च दन्ताः सुलोहिताः ।। यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः || २५७ ॥ म्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च । मुक्ता विषाणेषु कथं नागानां संभवन्ति च ॥ २८ ॥ म्लानगात्रो भवेत्केन स्तब्धगात्रस्तथैव च ॥ मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९ ॥ सममूर्धा भवेत्केन तथा प्राप्तविदुर्गजः ॥ उदडूध स च कथं गजो भवति जातितः ॥ ३० ॥ मदं गृह्णाति मातङ्गः केन प्रथमयौवने । अमदो वा भवेत्केन यावदायुर्मतङ्गजः ॥ ३१ ॥ मूढः कथं संभवति समदन्तश्च वारणः ॥ मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजौ ॥ ३२ ॥ करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥ गजश्चतुर्विपाणो वा कथं भवति जातितः || ३३ ॥ १ क, मुख्याच । २ क. गच्छति । ३ क. मोटः ।